215 
 217

अकिञ्चनाया औदार्यम्

जगाम कश्चिद्वित्तेशः पुण्यार्जनधिया बदरिकाश्रमादितीर्थावलोकनाय। पावनक्षेत्राणां च तेषां दर्शनेन तदीयं मानसं परं नैर्मल्यमाप।

यात्राप्रसङ्गे कस्मिंश्चित्पुण्यायतने ददर्श स कामपि बालाम्। सा च तमुपसृत्य ययाचे - “आर्य, देहि मे रूप्यकमेकम्” इति।

विचिन्तयामास स सार्थवाहः - “रूप्यकमेकं याचते खल्वियं तपस्विनी। अद्यत्वे किमु लभ्येत रूप्यकैकेण। कतिपयदिनानि यावत्सानन्दमश्नात्वियम्” इति।

भिक्षार्थिभ्यो वितरणाय सञ्चितानि भूरीणि कार्षापणानि तदीये प्रसेवके रेजुः। यात्रिका हि प्रायेणैवंविधानि नाणकान्यादायैव प्रतिष्ठन्ते। स च प्रसेवकादुद्धृत्यामून्यञ्जलिपूरपूरितानि नाणकान्यमुष्यै बालायै न्यवेदयत्।

एतावन्ति नाणकानि लब्ध्वा भृशं प्रमुमोद सा बाला। विस्फारिते च बभूवतुस्तस्या आयते लोचने।

क्षणानन्तरमेव तिरोदधे स तस्या हर्षोत्कर्षः। सा समन्ताद्दृष्टिं चिक्षेप। नातिदूरे केचिदकिञ्चना बालकाः क्रीडन्ति स्म। तदभिमुखं प्रतस्थे सा।

एकैकस्मै बालकायैकैकं कार्षापणं सा व्यतरत्। तथाप्यवाशिष्यन्त कानिचित्। तत्रत्यबालकद्वारा तेषां वयस्यानप्याजुहाव सा। तेभ्योऽपि च विततार नाणकानि।

अन्तत एकमेव नाणकममुष्याः पाणौ शेषतामाप। परया मुदा सा ततो जगाम।

आरादेतत्सर्वं निभालयन्स वणिगमुष्या निरुपममौदार्यं वैतृष्ण्यं च निशाम्य परमाश्चर्यमन्वभवत्।

215 
 217