216 
 218

पापसङ्कल्पस्य परिपाकः

वृषभाचलकन्दरामधितस्थौ निशिततपाः शाण्डिल्यनन्दिनी स्वयम्प्रभा नाम काचन योगिनी। गुरुदक्षिणोपजिहीर्षुः कौशिकान्तेवासी गालवो निजसख्युः सुपर्णस्य पृष्ठमध्यारुह्य विहायसा बभ्राम। विहृत्य च श्रान्तौ सखायौ अमू अमुमेव वृषभाचलं विश्रमायोपाजग्मतुः।

आतिथ्येन तौ समाराधयामास सा तपस्विनी। कृताहारौ चामू श्रमापनोदाय सुषुपतुः। व्युष्टायां रजन्यां प्रबुद्धो गरुत्मान् प्लुष्टौ निजपक्षौ विभाव्य महच्चित्रमापन्नो गालवं तद्धेतुं पप्रच्छ।

तं जगाद मुनिः - “हे सखे, महाप्रभावाया अस्याः कन्दरायां वसन् त्वं किमपि कलुषम् असङ्कल्पयो नु” इति। व्रीडावनतमस्तकः सुपर्णः क्षणमनुध्याय प्रत्युवाच - “बाढम्, आगोऽकार्षम्। 'लोकोत्तरसौन्दर्यनिधिमिमां वराङ्गीमपहृत्य पद्माक्षाय पिनाकिने पद्मभुवे वा यदि प्रयच्छेयम्, तर्हि प्रतिग्रहीता परं प्रहृष्येत्' इति पापमतीव समकल्पयम्” इति।

गालवोऽवादीत् - “तेऽदो दुर्विलसितमन्तर्ज्ञानेनाज्ञासीदार्या स्वयम्प्रभा। अत एव सा ते गरुतौ भस्मसाच्चकार” इति। “कथं नु भूयोऽपि गरुतौ लभेय?” इति विषण्णं तार्क्ष्यं मुनिः शशास - “तामेव महाभागां क्षमां याचस्व। तस्याः प्रसादादेव पुनरपि पक्षौ ते प्ररोक्ष्यतः” इति।

अथ विनतासूनुस्तां तपस्विनीं भूमौ निपत्य ननाम, स्वकृतागसः क्षान्तिं ययाचे, गरुतोः प्रत्यापत्तिञ्च। “मा स्म पुनरेवंविधं पापं कार्षीः” इति तं समनुशिष्य सा योगिनी निजयोगबलेन तस्य पक्षौ पुनः प्रादुरकार्षीत्। प्रत्यापन्नपक्षः पक्षिराट् प्रहृष्टमनास्तस्यै कृतज्ञतां निवेदयन् तां ववन्दे, गालवञ्च निजपृष्ठे निवेश्य खमुत्पत्य निजप्रयाणं प्रावर्तिष्ट।

216 
 218