कुसुमानि विक्रीणाना काचिदकिञ्चना पुष्पलाविका निकेतनान्निकेतनं बभ्राम। उपानत्क्रयाय कपर्दिकाया अप्यभावादनावृतचरणा सैवापथेष्वाचक्राम। अटनसमये तीक्ष्णकण्टकादिक्षता सा भृशं पर्यतप्यत, मध्यन्दिने च भानुकरसन्तप्तपांसुला पदवी तस्याश्चरणौ भृशमदहत्।
तादृशीं तस्याः शोचनीयां दशां निशाम्य कारुण्यद्रवीभूतहृदयः कश्चनाभिजातः पुमानुपानद्युगलं क्रीत्वा तस्यै प्रादात्।
उपानहौ परिधाय परमां मुदमुपगता सा कृतज्ञतया तं महाभागं प्रणम्य जगाद—“आर्य! नूनं भगवानेव साक्षात् त्वद्रूपेणावतीर्णः” इति।
“नैव भद्रे! नाहं परमेश्वरः। स तु गगने विराजते” इत्यम्बरतलं निर्दिशन् स पुमान् प्रत्यवादीत्।
“यद्येवं तर्हि नूनममुष्य जगदीश्वरस्य सखा त्वम्” इति पुष्पलाविका प्रत्युवाच।
“नाहं तस्य सखापि” इत्यसावाह।
“नूनं तस्य सखासि त्वम्। ह्यस्तनरात्रौ मया स करुणाकरोऽभ्यर्थितो यदुपानत्प्रदानेन मामनुगृह्णात्विति। अद्य च त्वमुपानहावानीय मह्यं प्रादाः। अत एव नूनं तस्य भगवतः प्रतिरूपः सुहृद्वासि त्वम्” इति सा व्याजहार।
“मानवताप्रणोदितेन मयाल्प एवोपकारो विहितः। नातोऽधिकं किञ्चित्। अमुष्य जगन्नियन्तुः सख्यमवाप्तुं नैव सुकरम्” इत्यसौ सज्जनः प्रोवाच।
“यः कश्चित् प्रत्युपकारनैरपेक्ष्येण जनेभ्यो हितमाचरति स एव तस्य परमेश्वरस्य सखा। फलापेक्षां विनैव निष्कामतया यः परोपकारे प्रवर्तते स नूनं भगवतः प्रेमास्पदं भवति” इति भावगर्भितं सा प्रमदा जगाद।
ईदृशीममुष्याश्चिन्तनप्रगल्भतामालोक्य विस्मितः सन्तुष्टान्तरङ्गोऽसौ पुमांस्तस्या वदनारविन्दमेव निर्निमेषं ददर्श।