सोत्कण्ठं निभालयतां जनानां श्रवणपथं जह्रुरिमा वाचः- 'अचिरादेव कलिजायमानो भीमः प्रादुर्भविष्यती'ति। क्षणानन्तरमेव कश्चिदाजानुबाहुर्मल्लो रङ्गमण्डपमवततार, यस्य पुरस्तादेकं यन्त्रयानं समतिष्ठत। सत्वरं हि चालकस्तद्यानं वेगेन प्रचोदयामास। अयं पुनर्मल्लो मारुतं वक्षसि निरुद्ध्य यानाभिमुखमचल इव तस्थौ, येन तद्यानं क्षणादेव स्तस्तम्भ। यद्यपि चालकेन यानवेगो भृशं प्रवर्धितः, तथापि पदमेकमपि पुरतो न ससर्प तद्यानम्। अन्तिमसीमां यावद् वेगवर्धनेन चक्रघोषो दिगन्तव्यापी बभूव, पृष्ठभागस्थचक्रयोस्तीव्रभ्रमणवशाच्च रेणुजालमन्तरिक्षं ववार। तथाप्येष वीरः स्ववक्षः प्रविस्तीर्य वज्राङ्गो भूत्वा तत्रैवावतस्थे। यानमग्रतो नेतुं नितान्तमपारयन् खिन्नः स चालकस्तस्मादवततार, ततो हि सर्वैः प्रेक्षकैस्तुमुलो जयनिनादश्चक्रे।
आन्ध्रवसुन्धरोत्तंसोऽयं मल्लग्रामणीः कोडीराममूर्त्याख्यां बिभर्ति स्म। आ बाल्यादेव हठयोगाभ्यासमनुतिष्ठताऽमुना महाशयेन सततपरिश्रमेण तादृगमानुषं मारुतिबलमर्जितमासीत्।
कदाचिद्धि भूमौ शयानस्यास्य वक्षःस्थलोपरि किमपि विशालं दारुफलकं न्यधायि। तत्र कश्चिन्मत्तदन्ती समनायि। स्ववपुः कालायसकल्पं विधाय स मल्लो यावदवातिष्ठत, तावदेव स गजो दारुफलकमध्यारुरोह। कतिपयक्षणान् तत्रैवावस्थायावरूढे तस्मिन् मतङ्गजे, सहेलमुदतिष्ठद्राममूर्तिः स्मितमुखः। श्वासानिलेन वक्षः पूरयित्वा तद्विस्तारणमात्रेणैवोरसि बद्धां लोहशृङ्खलां स लीलया बभञ्ज। अष्टसहस्रपौण्डपरिमितमतिगुरुं पाषाणमपि स्वपृष्ठभागमुत्क्षिप्य भूमौ मुहुर्मुहुर्निपातयति स्म स महाबाहुः।
अफजलखानाभिधः कश्चिद् यवनमल्लः कदाचिदमुं बाहुयुद्धाय समाजुहाव। तदाह्वानमुररीकृत्य राममूर्तिर्लवपुरं जगाम, किन्तु तत्र न कापि द्वन्द्वयुद्धकथा उदपादि। ततः प्रतिनिवृत्ते तस्मिन् प्रयागमुपगते सति, तमनुगच्छन् स एव खानः सम्पूर्णायां सभायां पुनर्द्वन्द्वयुद्धाय तं न्यमन्त्रयत। तदा राममूर्तेरन्तेवासी पृथ्वीराजः सहस्रं रूप्यकाणि सभामध्ये निधायैकां लोहशृङ्खलाञ्च तत्र निक्षिप्य यवनममुं साक्षादभिसम्बोधयन्नुच्चैर्जगाद-“हे खान ! यदि त्वमेतां शृङ्खलां त्रोटयेः, तर्हीदमर्थजातं तवैव सम्पद्येत, मदीयो गुरुश्च त्वया सह मल्लाखेटाय सज्जो भवेदिति।” अस्य प्रतिवचो दातुं स यवनस्तत्र नादृश्यत, यतो हि स निखिलानां प्रेक्षकाणां पश्यतामेव निःशब्दं ततः पलायाञ्चक्रे।
बलप्रदर्शनेन यावद्धनमसावर्जयति स्म, तत्सर्वमकिञ्चनेभ्यो व्यतरत्स वदान्यशिरोमणिः। विविधसंस्थाभ्योऽपि तेन विपुलं द्रव्यं विश्राणितम्। अनेकासु दिक्षु तेन मल्लविद्यामन्दिराणि संस्थापितानि। काशीहिन्दुविश्वविद्यालयस्य व्यायामविभागनिर्देशकपदमप्यलञ्चकार स महाशयः। अष्टत्रिंशदधिकैकोनविंशतिशततमे ख्रिस्ताब्दे स महापुरुषः परमं धाम प्रपेदे।