राजकीयेऽमुष्मिन् विद्यालये परीक्षासु लब्धगरिष्ठाङ्कस्य छात्रस्य सम्मानाय कश्चनोत्सवः समपादि। प्राप्ताधिकतमाङ्कश्चासावन्तेवासी सभायाः पुरस्तादासन्द्यां निषसाद।
प्रवृत्तायां च सभायामभ्यागतः प्राप्ताधिकतमाङ्कं तं बालं पारितोषिकप्रदानेन पुरश्चकार। 'अस्य लौकिकज्ञानं परीक्षणीयम्' इति काचिदिच्छा तस्य चेतस्युदियाय। ततश्च पाठ्येतरविषयानाश्रित्य पञ्चषान् प्रश्नान् स पप्रच्छ। परं नैतस्यैकस्यापि प्रश्नस्योत्तरं स बालः प्रोवाच।
अथैनं बालमभ्यागतोऽप्राक्षीत्—“मया पृष्टानां प्रश्नानामेकस्यापि नोत्तरितं त्वया। तत्कथङ्कारं परीक्षायामेतावन्तोऽङ्कास्त्वया साधिताः?” इति।
स च जगौ—“उत्तराण्यहं कण्ठस्थीकृत्य पश्चात्तानि लिखामि। पाठ्येतरविषयेष्वनभिज्ञोऽहम्” इति।
अत्रान्तरे सदसि निषण्णः कश्चन माणवक उत्थाय जगाद—“त्वया पृष्टानां निखिलप्रश्नानामुत्तराण्यहं जाने” इति।
“ब्रूहि तर्हि” इत्युवाचाभ्यागतः। बालश्च सर्वेषामप्युत्तराणि प्रोवाच। भूयश्च कांश्चन प्रश्नान् स पप्रच्छ। तेषामपि स माणवको यथार्थमुत्तरं जगाद।
परितुतोष भृशमनेनाभ्यागतः। अप्राक्षीच्च—“साधु माणवक! कस्यां कक्ष्यायामधीषे त्वम्?” इति।
“यस्यां कक्ष्यायामसौ प्रथमस्थानभाक् पठति, तस्यामेवाहमप्यधीये” इति स डिम्भोऽवादीत्।
“अपूर्वैव ते शेमुषी। कियन्तोऽङ्कास्त्वयासाद्यन्ते?” इत्यभ्यागतोऽप्राक्षीत्।
“उत्तमा एवाङ्का मया लभ्यन्ते। प्रायेण द्वितीयं तृतीयं वा स्थानमहमासादयामि….”
“मया पृष्टानां निखिलानामपि प्रश्नानामुत्तराणि कथङ्कारं दातुं शशाकिथ त्वम्?”
“पाठ्यपुस्तकानीवेतराण्यपि पुस्तकान्यहमनवरतमधीये। ज्ञानसञ्चयाय च सन्ततं यते।”
“समीचीना ते दृष्टिः। ज्ञानार्जनायैवाध्ययनं स्यात्, न त्वङ्कप्राप्त्युद्देश्येन। तावकीनामेतां प्रवृत्तिं निशाम्याहं भृशं प्रीतोऽस्मि। तस्माद्वैयक्तिकतया पारितोषिकं ते ददामि” इत्युदीर्य स्वकोशस्थाममूल्यां लेखनीं तस्मै प्रदाय पप्रच्छ—“किं ते नामधेयम्?” इति।
स च माणवकः—“दादाभायि-नवरोजीति मे नामधेयम्” इत्युदीर्याभ्यागतं प्रणम्य वेदिकाया अवातारीत्।