अविद्याध्वान्तं जिहीर्षुर्लोकानुग्रहैकरसो यतिकुलचक्रवर्ती शङ्करभगवत्पादो वसुन्धरां चङ्क्रम्यमाणः कदाचिदग्रहारं कञ्चिदाससाद । तत्र च द्वादशवार्षिकेण जडधिया तनूजेन साकमुपेयिवान्प्रभाकरनामा कश्चन गृहमेधी तच्चरणारविन्दं नमस्यन्निदमाचचक्षे — “भगवन्यतिकुलतिलक, आ जन्मनः जडिमोपहतोऽयं मे तनयो न जातुचिदसौ केनचित्संलपति । काष्ठलोष्टसन्निभोऽसौ स्पन्दशून्य इवाहरहरास्ते । कथंकारमस्येदमायत्यां जीवितं सुखोदर्कं भवितेत्याधिनाहर्निशं दन्दह्यते मे मानसम् । तत्कारुण्यामृतसिक्तेनाशीर्वचसेममनुगृह्यास्य धीजडिमानमपाकुरुतात्” इति ।
अनिमेषलोचनस्तस्य कुमारस्य वदनारविन्दं निदध्यौ स मुनिपुङ्गवः । अदृष्टचरं च किमपि भस्मच्छन्नशिखिप्रभं ब्रह्मवर्चसं तन्मुखमण्डले ददर्श । अथासावमुमन्तिकमाहूय वात्सल्यस्निग्धया गिरा पप्रच्छ — “कस्त्वमसि सौम्य, किमर्थं चेहागमः” इति ।
चिरधृतं मौनं गुरोर्वचोमृतकणिकाभिः प्रतिबोधित इवोत्सृज्य गम्भीरमधुरया वाचा स बालः प्रत्यभाषिष्ट — “भगवन्, नास्म्यहं गीर्वाणो न गुह्यको न चाग्रजन्मा न बाहुजो नोरुजो नाप्यन्त्यजः । नैव वर्णी न गृही न च वैखानसोऽहम् । कुतो मेऽन्ववायः, कुतस्तरां वाश्रमधर्मः । प्रत्युत परस्यैव ब्रह्मणः सनातनश्चिदंशोऽहमस्मि” इति ।
तदेतदुपनिषद्गर्भं वचस्तस्य मुखादुपश्रुत्य, यः खलु स्थूलधीरिति सर्वैरेवावमतोऽभूत्, चित्रलिखिता इव वविस्मयस्तिमितचेतसस्तत्रत्याः सर्वेऽपि तस्थुः । परं विस्मयमापेदिवान्जनकोऽपि भक्तिप्रह्वेन मौलिना देशिकमभिवन्द्येदमाबभाषे — “भगवन्, तवानुकम्पाकटाक्षपातेनायं मे वत्सः स्फुटवाग्विलासः समजनि । परं यदनेनोदीरितं तज्जात्यैव लोकोत्तरं प्रतिभाति मे” इति ।
तमाचचक्षे भगवान्भाष्यकारः — “नात्र किमपि चित्रम् । अविद्यावशंवदा हि वयं सर्वेऽप्यात्मनि नामगोत्रादिसंसर्गमध्यारोपयामः, तमेव चौपाधिकं वर्णकुलनामानुबन्धं परमार्थसत्यं मन्वाना विभ्रमामः । असङ्गस्य तु कूटस्थस्यात्मनो न नामधेयं नान्ववायो नापि वर्णव्यवस्था । या पुनरियं संज्ञा, यश्च पित्रोः सम्बन्धः, या च गोत्रजीविकादिप्रत्यासत्तिः, सर्वं तत्पाञ्चभौतिकस्य पिण्डस्यैव धर्मजातम् । पञ्चत्वं च प्रपन्नेऽस्मिन्कलेवरे नश्यत्येव निखिलोऽप्युपाधिसम्बन्धः, केवलश्चाविकार्यः परिशिष्यते प्रत्यगात्मा । यदा तु विवेकचक्षुषा परमार्थतत्त्वं विमृश्यते तदाखिलं परब्रह्मैवेति स्फुटमनुभूयेत । अयं च तवात्मजः शैशव एव तदिदं परं तत्त्वं साक्षाच्चकार । महामनाः खल्वेष निसर्गसिद्धो ब्रह्मवित् । तदेनं मया साकं विसृज । यद्ययमिहैव गृहाश्रमे निवसेत्तर्हि बहिर्दृष्टयो लोका जडधियमिममाशङ्क्य परिभवेयुः” इति ।
गहनं तद्देशिकेन व्याकृतमद्वैततत्त्वं नासाववैत्प्रभाकरः । तथापीदमेकं स निश्चिकाय यद्गुरोः साप्तपदीनेन सख्येन मे दारकः श्रेयः परमाप्नुयादिति । अतश्च प्रमुदितमनाः स तनूजमाचार्यानुयायिनं व्यस्राक्षीत् ।
तातेनाभ्यनुज्ञातश्च स कुमारो भगवत्पादमनुप्रस्थितो गच्छता कालेनाद्वैतविद्यापारदृश्वा बभूव । यतो हि करतलगतमामलकमिव प्रत्यगात्मतत्त्वं तस्य स्फुटतरमवभासते स्म, तत एव स गुरुणा हस्तामलक इत्यन्वर्थया संज्ञयाभिदधे ।
चतुर्षु भगवत्पादस्यान्तेवासिधुर्येष्वन्यतमोऽसौ हस्तामलकाचार्यो वारुण्यां दिशि प्रतिष्ठापितस्य द्वारकापीठस्य प्रथमोऽधिष्ठाता समभिषिषिचे । अद्यावधि च तं जगद्गुरुमित्येव सर्वलोकाः सभाजयन्ति ।