राष्ट्रियभावमेव जनेष्वजीजनत् स्वविरचितैर्गेयैर्नाट्यैः सात्त्विकाद्यभिनयैश्च द्रविडदेशमण्डनभूतोऽसौ विश्वनाथदासाख्यो धीरः। ततो गच्छता कालेन 'तूतुकुडी'जनपदमधिजग्मिवान् गान्धिमहाभागस्तदीयगान्धर्वमुपश्रुत्य प्रहृष्टान्तरात्मा तं बभाषे- “भो दासवर्य! भारतभुवः स्वातन्त्र्यलाभाय कल्पतामदस्ते कौशलम्” इति। तन्निशम्य पारदेशिकवासांसि तृणवद् व्यपास्य स्वदेशीयवस्त्राण्यादधानोऽसौ देशभक्तः स्वगीतैर्जनानां पारतन्त्र्यनिद्रामपनिनीय तान् अबूबुधत्।
तेनाभिनीयमानेषु रूपकेषु 'वल्लीविवाह'नामा प्रभेदोऽतीव पप्रथे। तत्राभिनयन्नयमाङ्गलेयशासनं शरव्यीकृत्य गीतानि जगौ। ततश्चुक्रुधुस्तत्रत्या आरक्षकाः, ये ह्येनं निगलबद्धं विधाय कारागृहमनैषुः। तत्र षण्मासिकं सांवत्सरिकं वा कारागारक्लेशमसावन्वभूत्। एवमसौ मुहुर्मुहुरारक्षकैर्नियम्यमानोऽप्यस्माद् व्रतान्न विरराम। अनेनास्य सर्वस्वमक्षायि, ऋणापाकरणाय च स्वकीयधाम विक्रेतुमसावबाध्यत। “प्रतिदापयिष्यामि ते धाम, यदि स्वातन्त्र्यसमरान्निवर्तेथाः” इति नगराध्यक्षस्तं प्रलोभयामास। स तु तं प्रस्तावं तृणाय मत्वा सुतरामपाकार्षीत्।
एकदा वल्लीविवाहनाटकेऽभिनयन्नाङ्गलेयशासनविरुद्धं किञ्चिद्गेयमुदगायत्। तदा रङ्गपीठमाक्रम्य तं बद्धुमुद्येमुरारक्षकाः। ततस्तान् प्राह दासः - “नाहमिदं गीतमुदगासिषम्, प्रत्युत नाटकेऽस्मिन् भूमिकां निर्वहन् पार्वतीसुतः सुब्रह्मण्य एवैतदगायत्। तस्मादमुष्मै एव समर्प्यतामयं बन्धननिदेशः” इति। तदाकर्ण्यारक्षकाणां मतिश्चुक्षुभे।
“न प्रवेष्टव्यं दासवर्येण रङ्गपीठम्” इत्याङ्गलेयशासनं जुघोष। तथाप्येष वीरपुङ्गवो निर्भयं रङ्गे जगौ। ततस्तं कारागारे निचिक्षिपुः। तदनु तस्य सुतः सुब्रह्मण्यदासोऽपि पितुः पदवीमनुसृत्य नाटकेष्वभिनयन् राष्ट्रियगीतानि जगौ। अमुमपि राजभटा रुरुधुः। सद्य एवोपयेमे स तरुणः। तममी आङ्गलाधिकारिण ऊचुः - “इतः परं देशभक्तिगीतानि न गास्यामीति यदि विलिख्य दद्याः, तर्हि त्वां मुञ्चेम” इति। किन्तु पितुरनुरूपः स सूनुः क्षमां न ययाचे। ततस्तमपि संवत्सरं यावत् कारागारे निचिक्षिपुः।
आङ्गलेयशासनं विरुन्धानोऽसौ धीर ऊनत्रिंशद्वारं कारागारमवाप। चत्वारिंशदुत्तरैकोनविंशतिशततमे ख्रिस्ताब्दे मार्गशीर्षमासे स गायन्नेव पञ्चत्वं प्रपेदे। भारतभुवः स्वातन्त्र्ययज्ञे तदीयं जीवनप्रसूनं पूर्णाहुतिरभूत्।