You are here: Home » stories » 220
219 
 221

स्वातन्त्र्ययज्ञे निष्कम्पप्राणाहुतिः

गोण्डान्वयावतंसो देशभक्तिरसार्द्रहृदयः शङ्करशाहो नाम नृपो बभूव। वैदेशिकाङ्ग्लशासकप्राबल्यादमुष्य नृपत्वं नामशेषतामजगाम। यानि गीतानि काव्यकलाकोविदोऽसौ प्रणिनाय तानि प्रकृतयोऽहर्निशमगासिषुः।

जबलपुरपरिसरवर्तिनः संस्थानाधीशान् भूमिपांश्चानेकविधव्याजैः श्वेतास्या भृशं परिपीडयाञ्चक्रुः। तत्कारणात्तेषु नृपेषु फिरङ्गिप्रशासनमधिकृत्य प्रबलो रोषो विजजृम्भे। तैः साकं सर्वैरेतस्य भूपतेर्निगूढः सम्पर्कोऽविद्यत। स्वाश्रितान् स इत्थं बभाषे - “एकदैव सर्वत्र यद्येतेषां वैदेशिकानां प्रतीकारो विधीयेत, तर्हि नूनमेषां शासनयन्त्रं प्रकम्पेत” इति।

परकीयसेनायां भृतिभुजोऽपि देशानुरागिणोऽनेके भटाः शासनमिदं समूलकाषं कषितुं चेतांसि समसज्जयामासुः। जातुचिदेतादृशानां क्रान्तिमनसामेकां रहस्यां समितिमेष भूपालः समुपजुहाव। तस्याममुष्य त्रयोविंशतिहायनो रघुनाथशाहनामा सूनुरपि सञ्जगाम। समितावेवं निश्चिक्ये - अचिरादागामिनि नवरात्रोत्सवारम्भदिने सर्वैर्भटैर्युगपदेव वैदेशिकप्रशासनस्य क्षयः साधनीय इति। इमं क्रान्तिसन्देशं प्रसारयितुं राज्ञा यद्देशभक्त्युद्दीपकमन्तःसारभूतं गीतमकारि तदेव साधनत्वेनोपयुञ्जीरन्नित्यपि तैरमन्त्र्यत।

अहो दौर्भाग्यम्, कश्चन लुब्धो भूस्वामी धनाशयाकृष्टमना इमां गुप्तां मन्त्रणां श्वेतास्येभ्यो निवेदयामास। तेन हि क्रान्तेरुपक्रमात् प्रागेवामीषां योजना वैफल्यमगात्। क्रुद्धा आङ्गलाः शङ्करशाहं तदीयमात्मजं रघुनाथशाहं च निगडैर्बबन्धुः कारागृहे च निचिक्षिपुः।

बन्दिगृहवासिनौ तौ प्रति श्वेतास्या एवमूचुः - “राजद्रोहात्मिकायामस्यां योजनायां ये येऽन्ये सहायकाः, तेषामभिधानानि यदि युवां सूचयेतं, तर्हि बन्धनाद्विमोक्ष्येथे” इति। तथापि वीरवरेण्यौ शङ्करशाहरघुनाथशाहौ तमेतं प्रस्तावं नैव प्रतिपेदाते।

निश्चिक्ये ततो वैदेशिकशासकैर्यदमुयोः मृत्युदण्डं विधातव्यमिति। 'धर्माधिकरणं प्रत्यदः प्रकरणं यदि नीयेत, तर्हि महान् कालक्षेपः सञ्जायेत। तस्मादविलम्बमेव दण्डविधानं कार्यम्' इति ते मन्त्रयाञ्चक्रिरे।

अरचि तस्मात् सत्वरमेव किञ्चन विचारणानाटकम्। अष्टादशशतोत्तरसप्तपञ्चाशत्तमे (१८५७) ख्रीस्ताब्दे सेप्टेम्बरमासस्याष्टादशे दिनाङ्के शतघ्नीयन्त्राद् ये गोलकास्त्रे विनिस्सस्रतुः, ते तयोर्वीरयोः प्राणानपजह्रतुः। अनया निष्कम्पया प्राणाहुत्यैव स्वातन्त्र्यसमरानलः पूर्वस्मादपि सुतरां देदीप्यमानोऽजनि।

219 
 221
Search
stories/220.txt · Last modified: 2026/07/01 14:44