You are here: Home » stories » 221

श्रद्धयैवावाप्यतेऽभीष्टम्

प्रजगाद ह ध्यानयोगरहस्यमन्तेवासिभ्यः कश्चिद्ब्रह्मविद्वरिष्ठः। पप्रच्छ चैनमेकदा कश्चिद्विनेयः— “न खल्वनेन निदिध्यासनेनाशनं वसनं वाधिगच्छेम। तदेवं सति किं नु प्रयोजनममुनातिक्लेशकरेण कर्मणा?” इति।

जगाद गुरुः— “अवाप्नुयादेव ध्याता यद्यदन्तरभिलषेत्। परं त्वं दर्दुरा इवानन्यभावेन योगं युञ्ज्याः।”

“किमु मण्डूका अप्येकाग्रतया ध्यायन्ति? निसर्गादेव नीचप्राणिनो ह्यमी। कथं नु ते योगरहस्यमज्ञासिषुः?” इति प्रत्यवदच्छिष्यः।

“अवेत्यसौ ध्यानप्रक्रियां न वेत्यप्रस्तुतमेतत्। अव्यभिचारिण्या श्रद्धयैवायं ध्यायति। अवादीस्त्वममुं नीचजीव इति। किं त्वमस्माच्छ्रेयान्? यद्येवं तर्हि स्वेष्टप्रार्थनया वृष्टिं प्रपातयेः।”

“दैवानुग्रहेण हि वर्षति देवः। कथं नु स्तुतिमात्रेण मेघजालमाकृष्येत?”

“आविशति ते मानसमुभयत्र संशयः। यस्य च मानसं संशयो विवेश तस्य श्रद्धा कुतः? अश्रद्दधच्च न किमपि फलं लभेत। न ह्यमी भेका ईदृशाः। निष्कम्पश्रद्धयैव ते स्तुवन्ति।”

“यदा खलु पर्जन्यो वर्षति तदा मण्डूका हर्षायमानाः परिभ्रमन्तीत्यवलोक्यैवमवोचस्त्वम्।”

“ये खलु धारासम्पाते सञ्चरन्ति दर्दुरास्ते तत्पूर्वं क्व नु विहरन्ति? प्रावृषं यावन्महीगर्भे शयानास्ते वृष्टिमेवाकाङ्क्षन्ते। तेषामभिलाषं पूरयति निसर्गः। श्रद्धया तितिक्षया च काम्यमानतत्त्वस्य प्रतीक्षणमेव ध्यानमित्यभिधीयते। यादृशोऽमीषां स्वभावस्तादृशश्चेदस्माकमपि भवेत्तर्हि वयमपि यद्यदभिलषामस्तत्तदासादयेम। तस्मादुच्चतमं तत्त्वमुद्दिश्य ध्यानं युञ्ज्यात्। तेनास्माकं जीवनमप्युत्कर्षं गच्छेत्” इति व्याजहार स महामनाः।

Search
stories/221.txt · Last modified: 2026/07/01 12:28