253 
 255

अन्तरङ्गसन्निविष्टो रघूद्वहः

शताब्दीचतुष्टयात् प्राक् प्राग्घटिता खल्वियमाख्यायिका। पुण्यपत्तने जज्ञे कोऽपि शब्दब्रह्मविद् वैयाकरणधौरेयः। व्याकरणशास्त्रे निस्सामान्यममुष्य पाण्डित्यं दिगन्तविश्रान्तां कीर्तिमसूयत।

स्वपूर्वजप्रतिष्ठापितमपि किञ्चिद्राममन्दिरं नायं विपश्चिद्वरेण्यः कदापि जग्मिवान्। जरठस्तु तत्पिता तं मुहुर्मुहुरचूचुदत्— ‘मन्दिरं गत्वा देवं प्रणम्य निवर्तस्व’ इति। तथापि दृढव्रतोऽयं पण्डितप्रकाण्डस्तमादेशं तृणाय मत्वा तदायतनं नोपेयाय।

षष्टिहायनं वयः प्रपन्नेऽस्मिन् विदुषि, पुण्यपत्तनपौरैस्तत्सम्मानाय कश्चित् सत्कारमहोत्सवः समकल्पि। तस्मिन्नहनि सुतमाहूय पिताऽवोचत्— ‘अये वत्स! अद्य खलु ते सम्माननदिनमस्ति ननु? तदद्य वा देवालयमभिगत्वा सीतापतिं प्रणम्य प्रत्यावर्तस्व’ इति।

तदाकर्ण्य विहस्य सुत उवाच— ‘तात! प्रतिरोममेवास्माकमन्तरङ्गे विजृम्भते श्रीरामः। स एवास्माकमनन्यशरण्य आराध्यदेवः। एवं सति, केवलं पाषाणमन्दिरप्रवेशेन किं साध्यम्? भूयांसो हि मन्दिरं गच्छन्ति, रामं नमस्यन्ति च। किन्तु किं तेन? रामभक्तिरन्तरङ्ग एवावतिष्ठेत। सा यदि तत्रैव दृढमूला भवेत्, तर्हि किमनेन मन्दिरगमनायासेन?’

‘अलमनेन शुष्कवेदान्तेन! अद्य त्वया मन्दिरं गत्वा भगवदनुग्रहो लम्भनीय एव’ इति पिता निर्बबन्ध।

‘कामम्, गमिष्यामि। किन्तु मा स्म काङ्क्षीर्मे प्रत्यागमनम्’ इति तनयो जगाद।

तदीयगूढाशयमनवबुध्यमानः पिता ‘त्वरस्व, इदानीमेव गत्वा रामं नमस्कुरु’ इत्यादिदेश।

अथ कृतस्नानः शुचिर्भूत्वा प्रासादं गतोऽयं पुत्रो राममूर्तेः पुरस्तान्निषद्य, निमीलितलोचनः सञ्जातभक्तिपारवश्यः— ‘हे भगवन् श्रीराम!’ इत्युच्चचार। अनन्तरक्षण एव तदीयं शरीरं क्षितिमधिशिश्ये। प्राणास्तु परब्रह्मभूते श्रीरामे सायुज्यमापुः।

स खल्वयं महाविद्वान् शब्दशास्त्ररहस्यवित् भट्टोजिदीक्षित इति नाम्ना लोके प्रथते स्म।

253 
 255