कारुण्यरसार्द्रहृदयः कश्चिद्गृहमेधी पुरा बभूव। सूचीभेद्यायां तमस्विन्यां कदाचित् केनाप्यज्ञातजनेन तदीयवेश्मनः कवाटं ससम्भ्रममघानि, आक्रन्दितञ्च— “हा आर्य! त्रायस्व त्रायस्व, जवादपाव्रियतामेतत्कवाटम्” इति।
अपावृणोत्सद्य एव द्वारं स कृपालुः। तदभिमुखो भयाकुलान्तरङ्गो वेपमानगात्रः कश्चिद्युवा तस्थौ। स च गद्गदस्वरेणावादीत्—“महाभाग! पापात्मा तस्करोऽहम्। अन्वगुर्मां तीव्ररोषारक्षकाः। निहनिष्यन्ति च मामसंशयम्। सम्प्रत्यतस्त्वयाहं परित्रातव्यः। त्वमेव ममैकं परायणम्” इति।
क्षणमन्तर्विमृश्य प्रशान्तचित्तः स सुजनो जगाद—“नास्त्यस्मिन्मदीये गेहे पर्याप्तोऽवकाशः। तथापि मा स्म भैषीः। प्रविश्य मे दुहितुरगारम्, प्रावरणेनात्मानं सम्यगाच्छाद्य विश्रब्धं शयीथाः। यदुत्तरं विधेयं तदहमेव संविधास्ये” इति।
स्तोकेनैव कालेन तत्र सम्प्राप्ताः सोद्यमा राजभटाः। “कश्चित्पाटच्चरोऽत्र प्रविष्टः किम्? तवेदं मन्दिरं मार्गितुं वयमुत्सहामहे” इति ते दारुणस्वरेण समभ्यभाषन्त।
अविचलितमनसा ततो गृहपतिः प्रत्यवादीत्—“स्वकलत्रेण, सुतया, जामात्रा च सममहमत्र निवसामि। नापरोऽत्र कश्चिदागन्तुको विद्यते” इति।
सम्यगन्वेषयामासुस्तद्वेश्म तीक्ष्णदृष्टयो दण्डपाशिकाः। दुहितुः शय्यागृहे निद्रायमाणं तं तस्करं जामातेति भ्रान्त्या परित्यज्य, चौरमनासाद्यैव हताशास्ते ततो निरगुः।
ततश्चोरः ससंभ्रमं समुत्थाय तस्य साधोश्चरणौ निगृह्याब्रवीत्—“अल्पमेव कालं ते शरणमयासिषम्। तेनैव मेऽसवः परिरक्षिताः। इतः परमिमे प्राणास्तवायत्ताः। आमरणं त्वमेव मे त्राता। तवाज्ञाकरोऽहमेष दासोऽस्मि” इति।
स च गृहपतिस्तं पादपतितं प्रणतं सप्रश्रयं सस्नेहञ्चोदतिष्ठिपत्।