← 310 
 312 →

वैरापहारिण्यनुतापशुद्धिः

महोत्सवः किलायोजि कदाचिद्राजगृहे। तत्र लास्यप्रदर्शनायाहूता काचिल्लास्यलतिका। आपन्नसत्त्वा खल्वसौ। अतो रङ्गभूमौ नृत्तविधौ स्वासामर्थ्यं सविनयं सा न्यवेदयत्। तथापि दृप्तैः सामन्तनृपैः “नृत्यमवश्यं विधेयमेव त्वया” इति सनिर्बन्धमादिष्टा। गत्यन्तराभावाद्विवशया तया ननर्ते। एतदवमानात्तीव्रतरः प्रतिजिहीर्षादहनस्तस्याश्चेतसि प्रजज्वाल। तद्विपाकतश्च परस्मिञ्जन्मनि तस्मिन्नेव पत्तने 'हारीती'र्नाम यक्षी सा सञ्जज्ञे।

यौवनमधिगच्छन्त्यां तस्यां प्राक्तनजन्मोदन्ताः स्मृतिपथमारुरुहुः। प्रतिक्रियाकाङ्क्षया चोदिता सा पौरडिम्भानपहृत्यादनाय प्रचक्रमे। सन्त्रस्ता रोषारुणेक्षणाश्च प्रकृतयः स्वव्यसनं क्ष्मापतये न्यवेदयन्। तच्छ्रुत्वा क्रुद्धो नृपालस्तस्या निगडबन्धनमादिदेश। राजपुरुषैश्च दृढमाबध्य सा बन्धनागारे निरुद्धा।

कर्णपथमुपगतेऽस्मिन्व्यतिकरे भगवता सुगतेन दिव्यचक्षुषा तस्याः पौर्वदेहिक उदन्तः साक्षात्कृतः। अनन्तरं राजगृहेशं सङ्गम्य तदनुज्ञया तां यक्षीं कारागाराद्विमोच्य स भटानन्वशात् - “अस्याः सुतो युष्माभिरपहर्तव्यः” इति। राजपुरुषैश्च तदादेशः शिरसा धृतः।

निजसुतापहरणवार्तामाकर्ण्य हारीतिर्हतचेतना मोहमुपजगाम। पुत्रशोकं सोढुमपारयन्ती सा मुक्तकण्ठं विललाप। “ये खल्वर्भका मयापहृत्य व्यापादितास्तेषां जननीजनकैरप्येतत्सदृश एव तीव्रशोकाग्निः सोढः स्यात्” इति विमृशन्ती, तीव्रेणानुतापेन दह्यमाना सा सुगतमुपसृत्य पप्रच्छ - “भगवन् ! मद्विहितानां दुष्कृतानां फलरूपेणावाप्तादस्मादेनसः का मे निष्कृतिः स्यादिति कृपयाऽनुशाधि माम्” इति।

तदा भगवान् बुद्धो व्याजहार - “पश्चात्तापहुताशन एव निखिलानि दुष्कृतानि भस्मीकरोति। अद्यप्रभृति नृशंसवृत्तं विसृज्य दीनानामार्तानां च परिचर्यां कुरु। सैव हि सेवा ते सर्वविधमपि कल्मषं प्रक्षालयिष्यति” इति।

सुगतस्यादेशं मूर्ध्नादायावशिष्टं स्वजीवितमनाथबालानां परिचर्यायै सा समर्पयामास।

← 310 
 312 →