औदार्यगुणमण्डितो वीरदेवो नाम कश्चिदवनीपतिर्बभूव। अमुष्य खलु दैवज्ञवचनेषु गरीयसी निष्ठासीत्। प्रत्युषसि निद्राया उत्थाय मुकुरे निजमुखं विलोक्यैव स प्रमदवने विहर्तुं प्रतस्थे। अमुना मङ्गलाचारेणैव स्वसौभाग्यमभिवर्धते इत्यमुष्य निश्चिता धीः।
अथ कदाचिन्निजमुकुरमदृष्ट्वैव प्रमदवनं प्रविष्टोऽसौ नरपतिः कञ्चन नूतनयौवनसम्पन्नं पुरुषं ददर्श। तमुद्वीक्ष्य च, “अद्य खलु प्रातरेव मयाऽस्य जनस्य वक्त्रमालोकितम्। न विद्मः, कीदृशमनिष्टं सूचयतीदं दुर्निमित्तम्” इति मनसा पर्यभावयत्।
यावदेवासौ हर्म्यतलमाससाद, तावदेव श्मश्रुवापाय कश्चित् क्षौरिकः समुपतस्थौ। आरब्धे च तस्मिन् कर्मणि, तस्य नापितस्याऽनवधानतया राज्ञो गण्डदेशे क्षुरेण कश्चिद् व्रणः सञ्जातः। तेन क्रोधान्धः स नृपतिस्तं दिवाकीर्तिं सन्तर्ज्य सद्य एव निरसारयत्।
मुहूर्तान्तरमेवाऽमुष्य चेतस्ययं वितर्क उदभूत् - “अद्य खलु मया स्वमुखं नाऽलोकि, प्रत्युत तस्यैवाऽपरिचितस्य यूनो मुखमदर्शि। तस्यैव दर्शनस्येदं कटुफलम्” इति। ततः स निजकिङ्करान् प्रहिण्वंस्तं युवानमानाययामास। आनीतोऽपि स युवा राजानं साष्टाङ्गं प्रणिपत्य सप्रश्रयमवतस्थे।
तदा कोपारुणलोचनो राजा तमुवाच- “रे दुर्विनीत! त्वदीयमेव मुखमद्योषसि मया प्रथममदर्शि। तस्यैव विपाकतः क्षौरकर्मण्यस्मिन् व्रणो मे सञ्जातः। सर्वथा दौर्भाग्यकरं ते वक्त्रम्। तस्मात् त्वमवश्यं दण्डमर्हसि” इति।
तदा स युवा प्रत्युवाच- “देव! यं कञ्चिदपि निग्रहीतुमनुग्रहीतुं वा प्रभवत्येव देवः। देवस्य खल्वादेशो न केनापि पर्यनुयोगमर्हति। ततो मामपि दण्डयितुमीष्टे एव देवः। परमस्मात् दण्डविधानात् प्रागेकमहं विज्ञापयितुमुत्सहे। अद्योषसि मयाऽपि प्रथमं देवस्यैव मुखकमलमालोकितम्। मदीयमुखदर्शनेन देवस्य केवलं शस्त्रव्रण एव जातः, देवस्य वदनदर्शनेन तु मया प्राणहरो दण्डोऽवाप्यते। सम्प्रति देवेनैव निर्णीयताम्- आवयोर्मध्ये कस्य मुखमधिकतरं दौर्भाग्यजनकम्?” इति।
एतदाकर्ण्य राजा मुहूर्तं यावत् किंकर्तव्यविमूढो निरुत्तरोऽभूत्। अवाङ्मुखः स तं युवानं किमप्यनुक्त्वा तूष्णीमेव विससर्ज। तस्मादेवाह्नः प्रभृति तस्य भूपतेश्चेतसि रूढोऽयमन्धविश्वासः समूलमुन्मूलितोऽभवत्।