You are here: Home » stories » 313
← 312 
 314 →

रणजित्सिंहावनीपतेश्चातुर्यम्

कस्मिंश्चिद्ग्रामे वयोवृद्धा काचन वराकी न्यवात्सीत्। तदीयोटजप्रान्त एव कश्चनागाधसलिलः कूपोऽविद्यत, यत एव सलिलमुदञ्चन्ती सा स्वकीयानि नैत्यकानि कर्माणि निर्वर्तयामास। तस्या एव कुटीरासन्ने भैरवाभिधः कश्चिन्नृशंस उवास, परपीडनमेव यस्य परं व्यसनमभूत्। जातुचिदसौ खलो वृद्धायास्तं कूपं मदीय एवायमिति प्रलपन् बलादपजहार। कूपोपशल्यमागन्तुमपि तामसौ नान्वमन्यत। तदनुचरा अपि दुष्टचेतस एवासन्, येन ग्रामीणाः सर्वेऽपि तस्माद्भृशमुद्विजमानाः कालं यापयामासुः।

अपां निधाने दुरात्मनाऽपहृते पानीयार्थमपि सा दीना परमुखापेक्षिण्यजायत। तेन भृशं दूयमाना सा राजधानीं प्रस्थाय नराधिपाय सर्वममुमुदन्तं व्यजिज्ञपत्। भूपतिस्तु “सम्यग्विचार्यते मया” इति तामाश्वास्य प्रतिप्रस्थापयामास।

चारचक्षुषा महीपतिर्वृद्धोदितं सर्वं तथ्यमेवेति निर्णीय, परेद्युस्तं ग्राममभिजगाम। तत्र च वृद्धायाः कुटीरं मार्गमाणः कूपपरिसरे समतिष्ठत। महीपतेरागमनमुपश्रुत्य बहवो ग्रामीणास्तत्र समाजग्मुः। समन्ताद्दृष्टिं निक्षिप्य स नराधिप उच्चैर्जगाद - “भो भो ग्रामीणाः! कस्यायमुदपानः? अमुष्मिन् कूपे प्रभूता काचन सम्पदन्तर्हितेति मयाऽश्रावि। तत एवाहं वेदितुमिच्छामि कस्येदमधिकारक्षेत्रम्” इति।

तदाकर्ण्य सर्व एव ग्रामीणाः समगिरन्त - “साम्प्रतं त्वयं कूपो भैरवस्यैवाधिकारे वर्तते” इति।

ततो राजा कोपारुणलोचनो भैरवमवलोक्य तर्जयामास - “अरे पामर! कूपेऽस्मिन्निहिता सा सम्पत् क्व गता? नूनं सा त्वयैवापहृता स्यात्, त्वत्पित्रा वा। यतस्तु भूगर्भे कूपादिषु वा लब्धा निधयो राजकोषाधीना एव भवन्ति, तस्मात्सा सम्पत्त्वयाचिरादेव राजकोषाय समर्पणीया। नो चेदा मरणमन्धतामिस्रे कारागारे निक्षेप्स्यसे” इति।

तदाकर्ण्य राजशासनाद्भीतो भैरवः प्रकम्पमानकलेवरः ससम्भ्रमं बभाषे - “महाराज! नैष कूपो मदीयः! अस्या एवाकिञ्चनाया वृद्धाया एव सोऽयमुदपानः” इति।

“सत्यमेव ब्रवीषि त्वम्?” इति राजा पुनरनुयुयोज।

“सत्यमेव वदामि देव! अस्या एव स्थविरायाः कूपोऽयम्” इति सविषादं प्रावोचद्भैरवः।

“बाढम्” इत्यभिधाय नराधिपस्तां स्थविरामालोक्य सान्त्वयन्निदमवादीत् - “मातः, अयं भैरवः सर्वेषां समक्षमन्वमंस्त यदयं कूपो भवत्या एवेति। अतोऽद्यप्रभृति निर्भया त्वममुमुदपानं निरर्गलमुपयुङ्क्ष्व। यद्येष जातुचिदपि त्वां क्लेशयितुं प्रयतेत, तर्ह्यस्मत्पुरुषेभ्यो निवेदय। त एनं निगृह्य समुचितं शासयिष्यन्ति” इति।

एवमतिकौशलेन न्यायनिर्णयं यश्चकार स एव पञ्जाबदेशाधीश्वरो रणजित्सिंहाख्यो नृपतिरासीत्। तस्यैव प्रशासनेऽमृतसरसि विख्यातस्य सुवर्णालयस्य सुवर्णमण्डनं विहितम्।

← 312 
 314 →
Search
stories/313.txt · Last modified: 2026/10/02 12:55