← 313 
 315 →

सैनिकवर्गो हि स्वकुटुम्बकल्पः

आस्त्रेलियादेशे नियुक्तः कश्चन भारतीयाधिकारी जरठत्वमुपगतोऽप्यनुशासनशृङ्खलितमेव जीवनं निनाय। विंशतिहायनो युवेव सुसंवीतवेषोऽसौ प्रत्यहं श्मश्रुवपनं वितन्वन्नुत्साहातिशयेन यूनोऽप्यत्यगात्।

मारुतसेवनाय पर्यटनमहर्मुखे नियतमस्य सहजं वृत्तमासीत्। कदाचिन्मरुद्विहारप्रसङ्गे तेन किञ्चिद्योधस्मारकं व्यलोकि यद्विपुलैस्तृणगुल्मैरभिभूतत्वादन्तर्हितशिलापट्टमभूत्।

कस्मिंश्चिद्भानुवासरे स वयोवृद्धो रथ उद्यानोपकरणानि निधाय स्मारकप्रदेशमुपजगाम। तत्रत्यानि प्ररूढतृणानि प्रकीर्णावकरपर्णानि चापसार्य स्मारकपरिसरं विशदीचकार।

अत्रान्तरे तत्राजगाम कश्चिदास्त्रेलियादेशीयो युवा। स्मारकपार्श्वे निरुद्धं भारतकेतुसनाथं शकटं वीक्ष्य सोऽमुमुपससर्प।

मन्दकासेन स्वागमनं निवेदयन्कर्मव्यापृतं तं वृद्धमप्राक्षीत्सः - “अहं तावदास्त्रेलियाचम्व्यां गुल्मपतिपदमध्यासे। भारतादिहागतस्त्वं कोऽसि? किमर्थमिह शोधनकर्मण्ययं ते प्रयासः?” इति।

स च भारतीयस्थविरो मन्दस्मितं वितन्वन्स्वपरिचयपत्रं प्रदर्शयामास। तद्वाचयित्वा भृशं सम्भ्रान्तो व्रीडावनतमुखश्च स युवा - “आर्य! भवान्!!” इति सविस्मयं व्याहरन्सैनिकप्रणाममकरोत्।

इत्थमास्त्रेलियासेनागुल्मपतिना यः ससम्भ्रमं नमस्कृतः स खलु भारतस्य महादण्डनायको जनरल् कारियप्पमहाभागः। अस्त्रालियादेशे भारतीयराजदूतपदमधिरूढे तस्मिन्निदमितिवृत्तं सञ्जातम्। सेनां सैनिकांश्च स्वकुटुम्बवत् पश्यता कारियप्पवर्येण वैदेशिका अपि हुतात्मनो योधाः परमादरेणैवालक्ष्यन्त।

← 313 
 315 →