चित्रभानोर्द्विजवरस्य राजदेव्याश्च गर्भाब्धिसुधाकरस्यामुष्य बाणभट्टस्य तात एवादौ विद्यागुरुर्बभूव। कानिचिद्वर्षाणि यावदेकाग्रचेतसा निरवद्यं विद्यार्जनं विधाय चतुर्दशहायन एवायं पितृप्रयाणजनितेन दुःसहाधिना जर्जरीकृतहृदयोऽभूत्। ततश्चैनं दारुणं मनस्तापमपनुत्सुर्नानादेशाटनं प्रारेभे। व्यतीतेषु केषुचिद्वासरेषु पर्यटने सञ्जातानुरागोऽसौ सुदूरान् विदेशानपि चचार।
यौवनं प्रपद्य च स्वग्रामं न्यवर्ततासौ। तत्र च स्वकीयप्रवाससम्बद्धान् विविधाननुभवान् कमनीयाख्यायिकाव्याजेन जनान् जगाद।
अथ कदाचिच्चक्रवर्तिनः श्रीहर्षस्यानुजकल्पेन कृष्णेन प्रहितः कश्चिद्दूतो बाणस्य मन्दिरमाससाद। स च तस्मै कृष्णस्येदं वाचिकं श्रावयामास—“अवैमि खल्वहं ते निरवद्यं वैदुष्यम्। परं केचिद्दुर्जनास्त्वद्विषये महाराजं प्रति दुष्टवाचां प्रयोगमकार्षुः। तारुण्ये त्वयानुभूतं नटनर्तकादिसंसर्गमेवातिशयोक्त्या वर्णयित्वा ते खला नृपतेश्चित्ते त्वयि दुर्भावनां व्यजीजनन्। वयन्तु सार्वभौमं यथार्थं व्यजिज्ञपाम। अत एव देवस्त्वां दिदृक्षते। राजसभायां ते नियुक्तिर्भवेदिति नः कामः। तस्मात् त्वमचिरादेव राजकुलमुपगच्छेः” इति।
एतद्वाचिकमधिगम्य श्वोभूते एव स नृपतिदिदृक्षया प्रतस्थे।
तत्काले खलु सार्वभौमः श्रीहर्षोऽजिरवतीतरङ्गिणीतटे मणिताराख्ये प्रदेशे सन्निविष्टे शिबिरे विराजमान आसीत्। बाणश्च तमेव देशञ्जगाम।
नरपतिदिदृक्षयोपस्थितश्चासौ बाणो मालवराजकुमारेण सार्धं चतुरङ्गक्रीडासक्तं सम्राजमद्राक्षीत्। स च बद्धाञ्जलिपुटो विनीतवेषस्तत्रैवावतस्थे। अस्यागमनं कटाक्षेणैव लक्षयन् श्रीहर्षो मालवराजकुमारं प्रत्युवाच—“अहो महानयं भुजङ्गः” इति।
तदाकर्ण्य विषण्णहृदयो बाणभट्टः सविनयं प्रत्यवादीत्—“देव! वसुन्धराटनसमये यद्यपि मे नटादिभिः कश्चन संसर्गोऽभूत्, तथापि न तावताहं जुगुप्साभाजनमस्मि। विशुद्धे कुले समुत्पन्नोऽहमधीतवेदवेदाङ्गशास्त्रः। काव्यरचनायामपि विद्यते मे नितान्तोऽभियोगः। ततश्च मय्येवम्भूतस्य चापल्यस्यारोपणं नैव साधीयः” इति।
राजा तु तदानीं न किञ्चिदपि व्याजहार। बाणश्च स्ववासगृहमेव न्यवर्तत। व्यतीतेषु केषुचिद्दिनेषु बाणः काञ्चिदीदृशीं वार्तामुपलेभे—“राजास्थाने देवस्त्वामास्थानकविपदे नियुक्तं दिदृक्षते” इति। एतदाकर्ण्य स नितरां जहर्ष।
राजसभायां च महाकविपदमलङ्कुर्वाणोऽसौ बाणभट्टोऽचिरादेव सम्राजः श्रीहर्षस्य परमं प्रीतिभाजनमभूत्।
अमुना हि बाणभट्टेन 'हर्षचरितम्' 'कादम्बरी' चेत्येतौ लोकोत्तरौ गद्यप्रबन्धौ व्यरच्येताम्।