You are here: Home » stories » 316
← 315 
 317 →

अचलश्रद्धामाहात्म्यम्

कथाप्रसङ्गे कदाचिद् बालमुकुन्दस्य दिव्याकृतिमित्थं वर्णयामास बालकृष्णशर्माभिधः कश्चित् पौराणिकः— “स्फुरत्यमुष्य मूर्ध्नि माणिक्यमण्डितं किरीटम्। उरसि च विलसन्ति जाम्बूनदमयी स्रक्, मुक्तावली, वैजयन्ती च। भ्राजन्ते श्रुत्योर्मकराकृती कुण्डले, पाण्योर्हेमकङ्कणानि, पीताम्बरवेष्टिते कटितटे काञ्ची, पदाम्बुजयोश्च शिञ्जाने नूपुरे। सर्वमिदं सुवर्णमयं वज्रखचितञ्च” इति।

आकर्णयन्नेतदाख्यानं दूरे निषण्णः कश्चन पाटच्चरो बालकृष्णस्य रूपसम्पदाकृष्टो दध्यौ—“क्वास्तेऽमुष्य डिम्भकस्य सदनमिति जिज्ञासितव्यं मया। ध्रुवमयं पौराणिकस्तद्वेत्त्येव। तस्मिन् मुषिते सति विपुलं वसु प्राप्नुयाम्” इति।

कथावसाने जनेषु स्वगृहान् जग्मिवत्सु, शर्मणोऽन्तिकमुपेत्य स स्तेनः पप्रच्छ—“भोः, यस्यापूर्वबालस्य रूपं त्वया वर्णितं, क्वासौ निवसति?” इति।

अभिज्ञाय तं मलिम्लुचं, तस्करकरधृतात् कृपाणात् सञ्जातभीतिः शर्मा वेपमानेन स्वरेणावोचत्—“अरण्ये कस्यचिद् न्यग्रोधपादपस्याधस्तात् स निवसति” इति।

काननं प्रविष्टः स पाटच्चरो न्यग्रोधं तु ददर्श, परन्तु न तत्र शौरिरासीत्। ‘निशि शयितुमयमवश्यमावर्तेत’ इति निश्चित्य स तत्रैव न्यषीदत्। न तेनापः पीताः, नाप्यन्नं जग्धम्, निद्रायास्तु का कथा!

उदितेऽपि सवितरि यदा कृष्णो न प्रादुरभूत्, तदा स स्तेनस्तमुच्चैराजुहाव—“रे कृष्ण! क्व त्वं निलीयसे? तूर्णमेहि” इति।

तदाकर्ण्य भगवान् वासुदेवो बालकृष्णरूपमास्थाय तत्रैवाविर्बभूव। पौराणिकेन यादृशं वर्णितं, तादृशमेवासीदमुष्य सौन्दर्यं नेपथ्यञ्च।

“किमर्थं त्वयाहमाहूतः?” इति पप्रच्छ हरिः।

“तवाभरणानि मोषितुमेवाहमत्रागतः” इति जगाद पाटच्चरः।

“यद् रोचते तत् त्वं गृहाण” इति प्रत्युवाच हरिः। तस्करस्तु सर्वाण्येवाभरणान्यभिललाष। भगवानपि समस्तान्याभरणानि तस्मै ददौ।

ज्ञापयितुं कृतज्ञतां ततः शर्मणोऽन्तिकमुपसृत्य स तस्करो निखिलं वृत्तान्तं निवेद्य कण्ठहारादीनि कानिचिदाभरणानि तस्मै प्रत्यपादयत्। तदालोक्य स पौराणिकश्चमत्कृतो दध्यौ—“मया तु कृष्णं केवलं काल्पनिकं मत्वा तस्य रूपमुपवर्णितम्। अयं स्तेनस्तु भगवति दृढं विश्वस्य तस्य साक्षाद्दर्शनमपि लेभे। अयमेव परमभाग्यशाली” इति। इत्थं विचिन्त्य स तं तस्करं साष्टाङ्गं प्रणिपपात। पाटच्चरस्तु किंकर्तव्यताविमूढो बभूव।

← 315 
 317 →
Search
stories/316.txt · Last modified: 2026/10/04 12:07