अकारणकारुणिको जगदीश्वरः
चीनाभिधानं देशमभिजगाम पाणिग्रहणानन्तरं काचिद् भारतीया कन्यका। आसीच्च तस्मिन् समये जपानाख्यस्य राष्ट्रस्याक्रमणज्वालया सञ्जातक्षोभेषु बहुषु देशेषु चीनदेशोऽप्यन्यतमः। समरसम्पातभीत्या च सा तूर्णमेव स्वमातृभूमिं प्रत्यवर्तत।
अमुष्या जननी तु भगवति नितान्तं बद्धभावा बभूव। यया खल्वनवरतमेवमभिधीयते स्म - “सङ्कटकालेषु यदि कश्चिदास्तिकः पुरुषोत्तमं प्रपद्येत, तर्हि नूनं तदीयामार्तवाचमाकर्णयत्यसौ करुणाकरः” इति।
तदेतन्मातुर्वचनं मनसाऽनुस्मरन्ती सा दुहिता भयोद्विग्नमानसा मातरमुवाच - “अम्ब! यदि नाम जपानदेशः समरं प्रवर्त्येत्, तर्हि चीनदेशमभिव्याप्य नैके देशा भस्मसाद् भवेयुः। त्वं हि जगदीश्वरे नितान्तं श्रद्दधासि। अतस्त्वमेव यदि तं करुणामयं याचेथास्तर्ह्यस्मान्महासङ्कटादनेकेषां परित्राणाय कल्पेत” इति।
“कीदृशीं तां प्रार्थनां कुर्यामिति त्वमभिलषसि?” इति पप्रच्छ जननी।
तनया प्रत्युवाच - “मातः! 'जपानदेशे कश्चन दारुणो भूकम्पः सञ्जायेत, येन कृत्स्नमपि तद्राष्ट्रं निर्मूलं स्यात्' इत्येवं परमेश्वरं प्रार्थयस्व” इति।
एतदाकर्ण्य विस्मयोत्फुल्ललोचना माता जगाद - “वत्से! कस्यचिदेकस्य प्रार्थनां निशम्य, कामपि दारुणाम् आपदं समुत्पाद्य, असङ्ख्यातान् निरपराधिनो जनान् संहर्तुं किमसौ परमेश्वरस्तावन्निर्दयः स्यात्? कस्यापि हि राष्ट्रस्य भूयांसो जनाः शान्तिप्रिया एव भवन्ति। तेषां मानसे युद्धं नरसंहारश्चेत्यादयो विकल्पा अपि नोन्मिषन्ति। न हि ते कदाचिदप्यन्येषामनर्थं वाञ्छन्ति। तथा सत्यपि जपानदेशस्यामङ्गलं कामयमाना त्वं किमर्थं स्वकीयं हृदयं कलुषयसि? नैतदौपयिकं ते। 'कस्यचिद्राष्ट्राधिपतेरविमृश्यकारितया जायमानोऽयं प्राणिविनाशो मा भूत्' इत्येवास्माभिः प्रार्थनीयम्। समस्तजगत्प्राणिनां शिवमेवाशास्स्व पुत्रि!” इति।
जनन्या हृदयवैशाल्यमवगम्य सा कन्या व्रीडिता बभूव। स्वकीयं चिन्तनं स्वार्थदूषितमिति विबुध्य जपानदेशं प्रति प्ररूढं द्वेषभावं विसृज्य, लब्धप्रतिबोधा सा स्वमातरं क्षमाम् अयाचत।