You are here: Home » stories » 107
← 106 
 108 →

अविभाज्या निष्ठा

आसन्नशरीरपातः कश्चिदिभ्यो मृत्युशय्यामधिशिश्ये। विदितमेवासीद्भिषजामप्यमुष्यान्त्यकालोपस्थानम्। अथाप्यमुष्य प्राणरक्षणाय नैवात्यजुस्ते चिकित्सनप्रयासम्।

प्राणान् जिहासुममुं पर्यवारिषुस्तनयाः कलत्रं सपिण्डाश्च। एनमेवाधिकृत्य प्रावर्तिष्ट तेषामन्योन्यसंजल्पः। सर्वमिदं निशामयतोऽपि शान्तमनस इभ्यस्य मुखकमले नादर्शि कापि भावविक्रिया।

द्रविणगृध्नूनां दायादानां पुनः “कथमिवामुष्य प्रेत्यभावे संविभज्येतेदमृक्थम्? कियद्वा मया लभ्येत?” इत्येवाभवदुद्वेगः। अपरैर्न ह्रियेत गृहावस्थितं हिरण्यादिकं वस्विति जागरूकतया ते समरक्षन्।

अस्य श्रेष्ठिनः पार्श्वे समतिष्ठन्त तिस्रो देवताः - सम्पद्, मुद्, निष्ठा चेति। यदा खल्वमुष्यासुत्यागः प्रावर्तत, तदैवोदगात्सम्पत् - “यः खलु ममाभिवृद्धौ रक्षणे च सज्जते, तमेवाहमुपासे। अमुष्य प्राणोत्क्रमणसमनन्तरमेवेमे दायादा मां विभजिष्यन्ति। अहमपि विच्छिन्ना सती तानेवाश्रयिष्ये। यस्तु मम विवर्धने परिपालने च श्रद्दध्यात्, तस्यैवान्तिके स्थिरमवतिष्ठेयम्” इति।

अथ मुदभ्यधात् - “अमुष्यार्थपतेरैहिकलीलावसाने सत्यहमिहतः सद्य एवापक्रमेयम्। यो वा कोऽपि मां भृशमनुसन्दध्यात्, तमेवाहमुपसर्पेयम्। विभागे त्वसत्यनाथैवास्मि” इति।

तदनन्तरं निष्ठा व्याजहार - “यः किल मामवाप्तुं भृशं परिश्राम्येत्, यस्य चात्मज्ञानं दार्ढ्यमञ्चेत्, यदीयश्रद्धा चाकम्प्या वर्तेत, तमेव जनमुपगच्छामि। मम रक्षणाय योऽजस्रं यतेत, तत्रैव रमेय। अस्य श्रेष्ठिनो लोकान्तरप्राप्तौ मयापि प्रस्थातव्यमस्माद्देशात्। नाहं शक्या संविभक्तुम्। मामवाप्तुं पुत्रादिषु कोऽपि यदि निरन्तरं श्राम्येताकम्प्यां च श्रद्धां बिभृयात्, तर्ह्येवाहं रूपान्तरमवाप्य तमाश्रयेयम्। नो चेन्निराश्रयैवास्मि” इति।

शृणुत हे सुधियः! योऽयमास्माकीनो निष्ठाभावः, तं खलु यूयं प्रयत्नेन परिरक्षत। अविभाज्यमेव खल्विदं तत्त्वम्। किं न्वेतदेवम्?

← 106 
 108 →
Search
stories/107.txt · Last modified: 2026/03/07 11:06