अङ्कुरिता देशभक्तिः
विवेश किल रत्नागिरिमण्डलान्तर्गतपल्लीग्रामस्य प्राथमिकशालाकक्ष्यां कश्चिदाचार्यः। तमालोक्य सविनयमुत्थाय सर्वेऽन्तेवासिनः प्रणेमुः। 'स्वस्त्यस्तु वः, निषीदत' इति तेनानुज्ञाताश्छात्रा ऊचुः— “भो गुरो! अद्य खल्वस्माकं श्रुतिपुटपेयां काञ्चन कथामाकर्णयितुं बलीयानभिलाषो जागर्ति” इति। तदाकर्ण्य स्मितमुखो गुरुरभाषत— “बाढम्, अद्य कञ्चनापूर्वं विषयमधिकृत्य वच्मि। प्रश्नांश्च कांश्चन वः प्रक्ष्यामि। यूयं स्वं स्वमाशयं निवेदयत” इति। “तथास्तु, पृच्छतु भवान्, सज्जाः स्म वयम्” इत्युदीरिते छात्रैर्गुरुः पप्रच्छ— “वर्त्मना व्रजद्भिर्युष्माभिर्यदि कमनीयं किञ्चिद्वज्रमवाप्येत, तर्हि किं कुर्यात” इति।
तत्रामेयनामा वटुर्जगाद— “अहं खलु तद्विक्रीय शकटं क्रीणीयाम्” इति। अमोघस्त्ववदत्— “तद्विक्रयणलब्धं वसु वित्तकोशे निक्षिप्य धनाढ्यो भवेयम्” इति। अप्रमेयस्तु— “निजं वेश्म तेन क्रीणीयाम्” इत्यब्रवीत्। अथ दामोदरनामा कश्चन मेधावी बालको व्याचचक्षे— “अहं तु तन्महारत्नमारक्षकाणामथवा राजाधिकारिणां हस्ते समर्पयेयम्” इति।
तमाशयं परीक्षितुकामो गुरुरुवाच— “वत्स! अस्वामिकं खल्वदः। ततस्तद्गृहं नेतुं युज्यते ननु?” ततो दामोदरः प्रत्युवाच— “परकीयमद इति कृत्वा नैव स्वमन्दिरं प्रापयेयम्” इति। पुनरपि गुरुणा— “यदि राजाधिकारी तदुपयोक्तुं त्वामेवानुजानीयात्, तर्हि किं कुर्याः?” इत्यनुयुक्ते स बालकोऽवोचत्— “तर्हि देशसेवायै दरिद्रोद्धाराय लोकहिताय वा तद्धनं व्ययीकुर्याम्” इति।
तदुत्कृष्टं विचारमाकर्ण्य प्रहृष्टो गुरुस्तं प्रशशंस— “साधु वत्स साधु! बाल्येऽपि देशहितसाधनाय बद्धपरिकरं तव स्वान्तमवेक्ष्य प्रमुमुदे मे चेतः। चिरायुर्भव” इति। “अनुगृहीतोऽस्मि, यावज्जीवमाज्ञां ते परिपालयेयम्” इत्युक्त्वा स तच्चरणयोरपप्तत्। “उत्तिष्ठ! महादेशभक्तो भूयाः” इत्याशीर्भिरभिनन्दितः स खल्वेष बालोऽचिरेणैव जगति महादेशभक्तत्वेन पप्रथे, यं जना गोपालकृष्णगोखले इत्यभिजानन्ति। “सम्यक् प्रवर्धमानस्य तरोर्लक्षणानि खल्वङ्कुरदशायामेव प्रादुर्भवन्ति” इति नीतिरत्र चरितार्थीबभूव।