ज्योतिरेव तिमिरमभिगच्छेत्
प्रस्थास्यमानः खलु कदाचिच्छौरिर्मणिमुकुराभिमुखो विविधैश्चारुतरैराभरणैः स्ववपुर्भूषयामास।
अदृष्टपूर्वमेतादृशं प्रभोराचरितमवलोक्य विस्मयस्तिमितो दारुकः पप्रच्छ— “देव, क्व नु खलु प्रस्थीयते त्वयाद्य? किमर्थं वा बाह्यान्यलङ्करणान्येवमतीवाद्रियसे? न हि पुरा कदाचिदपि बाह्यपरिकरेभ्य एवं ते स्पृहोदैत्।”
“यादृशी खल्वापद्यते स्थितिस्तादृशीमेव वृत्तिमाश्रयेदधीती” इति सस्मितं मौलिबन्धादिषु व्यापृतो मुरारिः प्रोवाच।
“किन्नाम तादृशं प्रयोजनमद्योदपादि? कं वा दिदृक्षसे त्वम्?” इति दारुकः पर्यपृच्छत्।
“कुरुराजमद्य दिदृक्षे।”
“का नु खलु सङ्गतिः कुरुराजदर्शनस्यैतेषां प्रसाधनानां च?”
“मदीयमन्तरङ्गमहिमानं ये बुध्यन्ते, तेषामग्रे साधारणेनैव वेषेणावतिष्ठे। धार्तराष्ट्रस्तु न तथाविधः। बाह्याडम्बरावलोकनेष्वेव तस्य निसर्गजा रतिः। ततस्तच्चित्तमावर्जयितुमेवायमाटोपः।”
“कुरुराजस्य चित्तमावर्जयितुं यदि तेऽभिलाषः, तर्हि स एवात्रानीयताम्। किमर्थं वा त्वं स्वयमेव तत्र प्रतिष्ठसे?” इति दारुको भूयोऽप्यनुयुयुजे।
“सखे, न खलु तिमिरं ज्योतिरभिगच्छति, अपि तु ज्योतिरेव स्वयमेव तिमिराभिमुखं प्रसरति। एष एव ज्योतिषो निसर्गः” इति विहसन् शौरिर्निजगाद।