You are here: Home » stories » 209
← 208 
 210 →

ईशमन्दिरे मानमदापसारणम्

अक्षरधाम्नो यतीश्वरं प्रमुखस्वामिनं कदाचिदुपससाद कश्चिदिभ्यः, प्रणिपपात च तच्चरणकमलयोः। पृष्टकुशलं तं पप्रच्छ मुनिः— “लब्धावकाशस्त्वमिदं सुरसद्माभ्येषि कच्चित्?”

“द्वित्रा आवृत्तीरकरवम्। परं न केनापि मे सत्कारो व्यधायि। अक्षणि मे स्वाभिमानम्। अत एवागमनमहासिषम्” व्याजहार सः।

“कामम्। सम्भाव्यतेऽदः। नास्त्यत्र ते लेशोऽपि दोषः” इति स्मयमानो बभाषे तापसः।

मुदितममुं पप्रच्छ मुनिः— “क्व ते निवासास्पदम्?”

“देहल्याममुष्मिन् प्रान्ते” इति जगाद श्रेष्ठी।

“साधु! आगामिनि रविवासरे त्वदीयप्रान्तमभिलक्ष्य राष्ट्रपतिः समेष्यति। वेत्सि खल्वेतत्?” पर्यपृच्छत् सः।

“अहो मे भागधेयम्! तं दिदृक्षुर्नूनमेव यास्यामि सुमनःस्तबकपाणिः” सोल्लासं प्रतिव्याजहार धनिकः।

“त्वयोपहृतं कुसुमाञ्जलिं यदि स नाददीत, तर्हि किं न ते मानभङ्गो भवेत्?”

“नैव। मादृशा बहवस्तत्रोपतिष्ठेरन्। सर्वेऽपि कुसुमाञ्जलीनाहरेयुः। मदीयोपायनं स न लभेत चेदपि न मे ग्लानिः। तस्य सम्भावनं मे कर्तव्यकोटिं समारोहति।”

“देशाध्यक्षं दिदृक्षुस्त्वं सत्कारमनासाद्यापि कर्तव्यबुद्ध्या तत्रोपगच्छसि। परं जगदीश्वरस्य देवायतनमभ्येत्य 'नाहं सत्कृतः' इति यद्विचिन्तयसि, तत्कथं नाम युज्येत? भगवदावासं गच्छता न खलु स्थानमानावलेपो मनसि विधेयः।”

श्रुत्वैतद् व्रीडावनतमुखः स इभ्यः क्षमामयाचत। ततो निरगच्छत्, नियमिततया च देवायतनमुपगन्तुमारेभे।

← 208 
 210 →
Search
stories/209.txt · Last modified: 2026/06/19 12:08