निर्मूलो विवादः
अध्यापकेऽनुपागते षष्ठीं कक्ष्यां पञ्चविंशतिसङ्ख्याका माणवकाः समलञ्चक्रुः। गुरावसन्निहिते तत्र केचन डिम्भाः क्रीडाव्यासङ्गिनो मिथःसल्लापेषु निममज्जुः। एतस्मिन्नन्तरे द्वयोर्बालकयोर्मध्ये कश्चिदुग्रो वाक्कलहः प्रादुरभूत्।
तयोराद्यः सगर्वं व्याजहार— “अपरिमितधैर्यशालिना मदीयमातुलेन दानवा अपि निहताः” इति।
तच्छ्रुत्वा द्वितीयः प्रत्युवाच— “अद्यत्वे नैव विद्यन्ते निशाचराः। अतुल्यवीर्यसम्पन्नेन मज्जनेकेन तु कदाचिदेकाकिना शार्दूलोऽपि पञ्चत्वं गमितः” इति।
वाचमिमां निशम्य प्रकुपितः प्रथमस्तारस्वरेण चुक्रोश—“अनृतमिदम्। मन्मातुल एव त्वत्पितुरप्यधिकधैर्योपेतः” इति।
ततो द्वितीयोऽपि कोपाविष्टो “मृषैतत्, मज्जनक एवैतस्माच्छूरतरः” इति भूयो भूयः प्रत्यजानीत।
तावत्येव काले कक्ष्यामुपाध्यायः प्रविवेश। अमुमागतं वीक्ष्य तौ द्वौ वर्जयित्वा सर्वेऽप्यमी छात्रास्तुष्णीम्भावमाललम्बिरे। तयोस्तु विवादस्तथैवानुवृत्तः। आद्यः “मन्मातुल एव श्रेष्ठः” इत्युद्घोषयामास, द्वितीयश्च “मत्पिता एव गरीयान्” इति प्रत्यवदत्। ततो गुरुस्तौ समीपमाहूय कलहकारणमपृच्छत्। ताभ्यां च सर्वो वृत्तान्तो न्यवेदि।
तदाकर्ण्य स्मयमानो गुरुः प्रोवाच—“अलमनेन वृथाकलहेन। युवयोर्मातुलः पिता च द्वावपि तुल्यवीर्यौ धैर्यशालिनौ च स्तः” इति।
तदवसरे कश्चिदन्यो माणवकस्तारस्वरेण जहास। “किन्निमित्तं हस्यते त्वया” इत्युपाध्यायेन पृष्टः स तमुवाच—“य एवास्य मातुलः स एवैतस्य जनकः, यत इमावन्योन्यं भ्रातृभगिन्योः पुत्रावेव वर्तेते” इत्युक्त्वा स पुनरपि प्राहसत्।
अहो चित्रेयं लोकयात्रा, यत्र कदाचिन्महती विप्रतिपत्तिर्दृष्टिगोचरतां याति, पर्यन्ते च सा सर्वथा तत्त्वहीना निर्मूला चेति निर्णीयते।