आत्मजयमहिमोत्कर्षः
ज्ञानामृतरसास्वादलम्पटमनाः सुगतशासनानुरक्तः कश्चिदन्तेवासी पुरा बभूव। ‘अशेषदिगन्तान् परिभ्रम्य नानावर्णाः कला विद्याश्चाधिगन्तव्या मये’ति दृढतरं सङ्कल्प्य, स ह्यखिलां वसुन्धरां पर्यटितुं प्राक्रमत।
कस्मिंश्चिज्जनपदे शरासनविद्यायां विशिखघटनकलायां च निरतिशयं नैपुण्यमवाप। अन्यस्मिंश्च देशे पोतनिर्माणचातुरीमन्वबुध्यत। अपरस्मिंश्च विषये नानावर्णानां प्रतिमानामभिनिर्माणकौशलं जग्राह। इत्थं विंशत्यधिकान् देशान् व्यतीत्य तावन्त्येव नैपुण्यान्यमुनाधिजग्मिरे।
स्वराष्ट्रं प्रत्यागतममुं पौराः शतशः श्लाघितवन्तः। निरन्तरस्तुतिनिनादाकर्णनेन तन्मानसे महान् दर्पोद्रेकः समजनि। गर्वाध्मातस्यैतस्य दम्भश्चेष्टितेषु नितान्तं स्फुटतया प्रादुरासीत्।।
सर्वज्ञेन भगवता तथागतेनेदं सर्वं प्रविज्ञातम्। तस्य दर्पप्रशमनं चिकीर्षुः स भगवान् स्थविरश्रमणवेषमास्थाय करधृतभिक्षापात्रस्तत्पुरस्तात् प्रादुरासीत्।
आविर्भूतं तमालोक्य स वर्णी पप्रच्छ— “कोऽसि त्वम्?”
“आत्मजयमन्विच्छन् कश्चन साधकोऽस्मि” इति प्रत्यवादीदसौ।
“कोऽयमात्मजयो नाम? कीदृशं वा तद्विज्ञानम्?” इति सविस्मयं पर्यपृच्छदयं वर्णी।
“शरादीनां पोतप्रतिमादीनां वा निर्माणं न खल्वतिदुष्करम्। परन्त्वात्मजयो नैव सुकरः” इति जगाद स मुनिः।
“तत्र किं तावद् दुष्करत्वम्?”
“श्लाघाश्रवणेनोल्लसति चेतः, निन्दया च विषण्णतामापद्यते। कोपोद्वेगादयो मानसमालिन्यहेतवः पौनःपुन्येनास्मान् प्रबाधन्ते। मोहमात्सर्यादयश्चास्मान् स्वायत्तीकुर्वन्ति। यस्तु निन्दास्तुत्योर्निर्विकारः स्यात्, यं च रोषविद्वेषावेगादयो विकारयितुं न पारयेयुः, स एवात्मजयीति निगद्यते। तादृशीं वीतरागावस्थामधिगन्तुं सुमहत् तपश्चरणीयम्। सुदीर्घकालव्यापिना कठोरतपसा सा सिद्धिरधिगम्यते।”
तद्वचनमाकर्ण्य सद्य एव गलितगर्वोऽसौ वर्णी स्वदोषं सम्यगन्वबुध्यत। आत्मजय एवाधिगन्तव्यो मयेति दृढं सङ्कल्प्य स तपोध्यानादिषु सुतरां न्यमज्जत्।