You are here: Home » stories » 26
25 
 27

अविपश्चितां भेदमतिः

कदाचन पथि श्राम्यन्कश्चिद्यतिप्रवर उदपाने स्पृहामकरोत् । अचिरादेव तेन समीचीनवर्ति कस्यचित्पादुकाकृत उटजं ददृशे । तमुटजमुपसृत्यायं संयमी तत्रत्यं पुरुषमित्थमाबभाषे — ‘‘अये सौम्य, कच्चिदस्ति वो गृहे सलिलं पानीयम्?’’ इति ।

तं यतिप्रवरमात्मनोऽतिथिमालोक्य स पादुकाकृत्परितोषस्य परां कोटिमारुरोह । सद्यः समुत्थाय सोऽन्तर्गृहं प्रविश्य जलपूर्णं कलशमाजुहार, तस्मै च मुनये दातुमुपाक्रमत । परं तु तावतैव तेनात्मनः पादुकाकृज्जनित्वं संस्मृतम्, येन स प्रसारितपूर्वमपि हस्तं ससङ्कोचं प्रत्याहार्षीत् ।

अथैनं वारिदानविलम्बकारणं स यतिः पप्रच्छ — ‘‘भद्र, किमिति वारिदानेऽस्मिन्नेवं विचिकित्ससे?’’

तदाकर्ण्य स दीनवाक् तमभिदधौ — ‘‘भगवन्, अन्त्यजातिप्रसूतोऽहं चर्मकृत् । मया युष्मभ्यं प्रदीयमानमिदं पानीयं केवलमेनसे कल्पेत ।’’

इदं निशम्य स यतिरीषत्स्मितं कृत्वा तं प्रत्युवाच — ‘‘अहो पुण्यापुण्यविचारे ते गरीयसी श्रद्धा!’’

ततो द्वित्राणि पदान्यभिक्रम्य तस्य स्कन्धदेशे स्वपाणिमादधत्स पुनरिति प्रावोचत् — ‘‘पश्य, सौम्य! मयेदानीं त्वं स्पृष्टोऽसि, न तु त्वयाहम् । तस्माद्यदि किञ्चिदागः सम्भवेत्तर्हि तन्ममैव स्यात् । अतोऽलमिदानीं विचिकित्सितेन । प्रदीयतां तोयम्’’ इति ।

तस्यैतदाश्वासनं श्रुत्वा स चर्मकृत् तस्मै जलमदात् । निपीतसलिलस्तु स महात्मा तमवोचत् — ‘‘भ्रातः! न खलु विशेषं कञ्चन पश्यति धाता प्रजासु । ये तु तारतम्यदृष्टयस्ते हि मूढचेतसः । स्पृश्यास्पृश्यविकल्पोऽयं पुरुषबुद्धिसम्भवः, तत्र मा कदाचिच्छ्रद्धां कार्षीः । किञ्च, क्षुधा मां बाधतेतराम् । यदि तेऽद्य गेहे लभेयाहमन्नं तर्हि सुष्ठुतरं भवेत् ।’’

‘‘यद्भगवानास्मदीये कुटीरे भोक्तुमध्यवस्यति, तन्नूनमस्मदीयस्य महतो भागधेयस्य विपाकः’’ इति सानन्दं निगद्य स चर्मकृत्पाकनिष्पत्तये स्वजायां सन्दिश्यन्नन्तः प्रविवेश ।

25 
 27
Search
stories/26.txt · Last modified: 2025/12/10 11:18