You are here: Home » stories » 262
← 261 
 263 →

प्रज्ञैव परमोत्कर्षः

उषतुः क्वचिद्ग्रामके कृषीवलदम्पती। कृशाङ्गी धेनुर्गलत्प्राणो धूर्वहो लघीयः सस्यक्षेत्रमित्यमून्येवास्तामनयोर्द्रविणानि। कदाचित् सीरं कर्षत्यमुष्मिन् हालिकेऽभ्यागत्य कश्चिन्मृगपतिस्तमुवाच—“समर्पयैतौ ते गोवृषभौ मह्यम्, नो चेत्सान्वयं त्वां शमयितास्मीति।”

आकर्ण्यैतद्भयसम्भ्रान्तचेताः स हालिकः स्वकान्तायै निखिलमुदन्तमाचचक्षे। तच्छ्रुत्वा सा प्रगल्भा बभाषे—“अहो, गोवृषभविहीना कथं नु निर्वर्तेतास्मदीया जीवनयात्रा? तद्गत्वा ब्रूहि तं पञ्चास्यम्—'वाजिनमारूढा मदीया पत्नी त्वामभ्यागच्छति' इति।”

ततो गत्वा स कृषीवलो मृगेन्द्रमवादीत्—“भो वनराज, पीवरमेकं हयमादायाभ्येति मे कलत्रम्। मुहूर्तं प्रतिपालय” इति।

कस्यचित्कालस्यात्यये वाजिनमारुह्याभ्यागता सा वधूः प्रोवाच—“आर्य, 'प्रातराशाय चतुरो हर्यक्षानुपनेष्यामि' इति प्रतिज्ञाय त्वयैकोऽयं गतासुप्राय एव केशरी समुपनीतः। कामम्, यथाकथञ्चिदनेनैव निर्वहिष्यामः” इति।

तदाकर्ण्य स केसरी सत्वरं ततः पलायाञ्चक्रे। तस्य पलायनमवलोक्य कश्चित्क्रोष्टा तं निरुध्यापृच्छत्—“राजन्, किमिदं सञ्जातम्? किमर्थमयं ते पलायनसम्भ्रमः?” इति।

तदा मृगपतिर्निगदति स्म—“किं ब्रवीमि, कथं वा ब्रवीमीति न जाने। प्रातराशायैव चतुरः केशरिणो भक्षयन्त्याः कस्याश्चिद्भीषणायाः सकाशात्कथमपि प्राणान्परिरक्ष्याहमिहागतोऽस्मि” इति।

तच्छ्रुत्वा जम्बुकोऽवादीत्—“तामहं सन्त्रासयिष्यामि। निबद्धौ स्यातामावयोर्वालधी। मामवलोक्यैव सा भयविह्वला सती पलायिष्यते” इति।

ततस्तावितरेतरं स्ववालधी निबध्य तस्या अन्तिकं जग्मतुः। तावुपसर्पन्तावालोक्य सा कृषीवलपत्नी तारस्वरेण व्याजहार—“रे गोमायो, 'चतुरः सिंहान्पुच्छे निबध्यानयिष्यामि' इति प्रतिज्ञाय त्वयैकोऽयं गतासुप्राय एव केशरी समुपनीतः। अस्तु, यथाकथञ्चिदनेनैव निर्वक्ष्यामः” इति। तदाकर्ण्य स पञ्चास्यः पुनरपि पलायाञ्चक्रे। 'यस्या वचांस्याकर्ण्य साक्षान्मृगेन्द्र एव सन्त्रस्तो धावति, तस्याः पुरतः का नु गणना ममाकिञ्चनस्य?' इति विमृशन् स क्रोष्टापि तेनैव सह पलायाञ्चक्रे।

← 261 
 263 →
Search
stories/262.txt · Last modified: 2026/08/14 16:15