You are here: Home » stories » 264

प्राणव्ययेनापि शिष्योद्धारः

लब्धवर्णा बभूवुर्बहवश्छात्रा महर्षेराश्वलायनस्य पादमूलमुपाश्रित्य। तेनैवामुष्य दिगन्तेषु प्रततान कीर्तिप्रतानः। आसीच्चामुष्य विनेयेषु देवदत्तो नामान्यतमः।

विद्याग्रहणावसाने क्षुद्रजनसंसर्गमासाद्य दुराचारपरायणः सञ्जज्ञे स देवदत्तः। तं निग्रहीतुं प्रायतत चमूपतिः, परं न शशाक तं निगले बद्धुम्। विपिनान्तराले निलीनोऽसौ तस्करवृत्त्या निरपराधाः प्रकृतीर्नितरामपीडयत्।

जातुचिदाश्वलायन इत्यध्यवस्यत्—“मदीयोपदेशेनायं देवदत्तः सन्मार्गं ग्राहयितव्य” इति। अमुष्य शुभशंसिनस्तु सुहृदस्तमूचुः—“आर्य! मुञ्चेमं दुराग्रहम्। न हि दुर्जनोपदेशः फलेग्रहिः स्यात्, प्रत्युत ते प्राणसंशयोऽप्युपपद्येत” इति।

नैव व्यरमन्निजसङ्कल्पात् स महर्षिः। ततस्तं मार्गमाणो विपिनमभिप्रतस्थे।

गाढे ध्वान्तेऽभ्यापतन्तं तं विलोक्य देवदत्तः सहुङ्कारं जगाद—“रे रे कोऽसि त्वम्? तिष्ठ तत्रैव! नो चेन्मदीयासिधारायै बलिर्भूयाः” इति।

निशाम्य तदीयं स्वरं ‘नूनमयं देवदत्त एवे’ति प्रत्यभिज्ञाय “हा वत्स!” इति व्याहरन् पदानि पुरो निदधौ स मुनिः। ततो रोषताम्राक्षो देवदत्तो निस्त्रिंशमुद्यम्य तं जघान। असिधाराहतश्च स महर्षिः पपात भूतले।

तस्मिन्नेव क्षणे व्यद्योतिष्ट काचन शम्पाद्युतिः। तस्यास्तु भासि निजगुरुमवगम्यानुतापेन दन्दह्यमानः सविषादं पप्रच्छ—“हा गुरो! किमिदं घोरमन्वतिष्ठम्?” इति।

जगाद तदानीमाश्वलायनः—“हा वत्स! नूनं मदीये शिक्षणे समभूत् कश्चिद्दोषः, तत्फलस्वरूपेणैवेमं दण्डमन्वभूवम्” इति। समनन्तरमेव जहौ प्राणान् स महर्षिः।

अनया घोरघटनया भृशं सन्तप्तहृदयो देवदत्तस्तदैव व्यधात् सङ्कल्पम्—“इतः प्रभृति न जातु पापकर्मसु प्रवर्तेय” इति। कालान्तरेण स पुण्यचरितः संवृत्तः। इत्थं निजप्राणाहुत्यान्तेवासिनो मनःपरिवर्तनं साधयामासाश्वलायनः।

Search
stories/264.txt · Last modified: 2026/08/14 16:21