You are here: Home » stories » 265

स्वार्थनिरपेक्षः परोपकारव्रती

गौडविषयान्तःपातिनि वर्धमानजनपदे कोऽपि निसर्गकुशाग्रबुद्धिर्माणवको दशमीं कक्ष्यामध्यैत। क्रीडासक्तस्वान्तोऽपि स प्रकृत्यैव परोपचिकीर्षाव्यसन्यभूत्।

प्रत्यासन्नायां खल्वन्तेवासिपरीक्षायां स विरराम क्रीडाविहारात्। तदीयेनानागमनेन विषण्णहृदयास्तत्सवयसः कदाचित्तदगारमुपेत्य तज्जननीं पप्रच्छुः— “आर्ये, क्व नु ते तनयोऽद्यत्वे गच्छति? न हि स क्रीडनाय मनागप्युपसर्पति।”

“कच्चिन्न स युष्माभिः सार्धं सङ्गच्छते? दिने दिने हि स चिरेणैव भवनमाविशति। मया त्वेतदन्वतर्क्यत— नूनमयं क्रीडाव्यसननिमग्नो भवतीति।”

“शान्तं पापम्। समग्रं मासमभिव्याप्य न हि तेन क्रीडाङ्गणं कदाचिदप्यवातारि।”

“बाढम्, अद्यैवाहं तममुमर्थमनुयोक्ष्ये” इति जगाद जननी। तस्मिन्नप्यहनि स माणवकश्चिरेणैव भवनमाजगाम। मात्रा च विलम्बकारणे पृष्टेऽसावूचे— “वयस्यो मे कश्चिद्दारिद्र्योपहततया परीक्षाशुल्कमर्पयितुमक्षमः। तमनुजिघृक्षुरहं कांश्चिन्माणवकान् पाठयामि। ततो लब्धेन द्रविणेन तद्व्यसनमपनेष्ये।”

“धनस्य चेदासीदपेक्षा, नन्वहमेव त्वया विज्ञापनीयाऽभविष्यम्? तातमुक्त्वा तेऽहं धनमुदपादयिष्यम्।”

“मातः, नाहमन्येषामनुकम्पामकाङ्क्षिषम्। निजपरिश्रमेणैव द्रविणमर्जयित्वा तेनैव मे सुहृदनुग्राह्य इति मे दृढो व्यवसायः” इति सप्रश्रयं प्रत्युवाच तनयः।

तदीयां तां निरवद्यामुद्यमशीलतां परोपचिकीर्षां च निशाम्य जननी परं प्रहर्षमवाप।

स एव खलु माणवकः कालान्तरेण ‘सुभाषचन्द्रबोस’ इत्याख्यया भुवनविदितप्रतापोऽजायत।

Search
stories/265.txt · Last modified: 2026/08/15 12:18