ज्ञानविज्ञानयोगः
तीरे महोदधेः सुखासीनः, परिहितधवलवसनो राङ्कवावृतस्कन्धश्च कश्चित् प्रशान्तात्मा प्रौढः श्रीमद्भगवद्गीतामध्यैष्ट। अत्रान्तरे समाजगाम कश्चन युवा। सोऽमुं प्रौढमुपसृत्य पप्रच्छ — “अये! किमत्रोपविश्य पठ्यते त्वया?” इति।
“श्रीमद्भगवद्गीता मयाध्यीयते” इत्यमुना धीमता प्रत्यवाचि।
“अहो! विज्ञानप्रकर्षभाजि वर्तमानेऽस्मिन् युगे किमिति त्वादृशैरीदृशग्रन्थाध्ययनेन कालः क्षिप्यते? समारूढमस्माभिः शशाङ्कमण्डलम्। तत्किमिदानीं कालहतस्यास्य ग्रन्थस्य परिशीलनेन?” इत्यसौ युवा चुकोद।
“किं वा ज्ञायते त्वया भगवद्गीताविषये?” इत्यसौ प्रौढोऽनुपप्रच्छ।
“न किञ्चिदपि। न च ज्ञातव्यमवशिष्यते” इत्यसौ दर्पेण प्रत्युवाच।
“अस्तु तावत्… कोऽसि त्वम्? किं च कर्म क्रियते त्वया?” इत्यसौ प्रौढः शान्तस्वान्तः पप्रच्छ।
“वैज्ञानिकोऽस्मि विक्रमसाराभायिनाम्न्यां गवेषणशालायां संशोधनकर्मनिरतः। विज्ञान एव धिषणा प्रयोक्तव्या, न त्वीदृशेषु मुधापठनादिषु” इत्यसौ युवा प्रतिजगाद।
तावत्येव द्वे शकटेऽमुष्य प्रौढस्य सविधमुपसृत्य तस्थतुः। एकस्माच्छकटात् केचन कृष्णवसनधारिणः सशस्त्रा अङ्गरक्षका अवारुक्षन्। अन्यस्माच्च कश्चन सैनिकोऽवरुह्य स्वीयशकटस्य कवाटमपावृत्य सप्रश्रयं तस्थावग्रतः। प्रौढोऽपि स्वाध्ययनं समाप्यादो यानमधिरुरोह।
अदस्सर्वं दरीदृश्यमानो युवा विस्मयविमूढमानसो बभूव। प्रस्थानाभिमुखमदो यानमनुधावन् सोऽमुमुपसृत्य कृताञ्जलिः पप्रच्छ — “आर्य! कोऽसि त्वम्?” इति।
सस्मितमसौ प्रौढः — “विक्रमसाराभायिनामाहमस्मि” इत्युक्त्वा “किं ते नाम?” इत्यनुपप्रच्छ।
“अब्दुलकलाम इति मे नाम” इत्यसौ युवा सविनयं प्रत्युवाच।
अमुष्मिन्नेवाह्नि स कलाममहोदयः सङ्कल्पं चकार — ‘मयापि गीताध्येतव्यैव’ इति। एषा घटना तदीये जीवने महान्तं व्यत्यासमावहत्। ‘गीता विज्ञानं च’ इत्याख्ये स्वीयग्रन्थे स एवमलिखत् — “गीता, रामायणं, महाभारतम् इत्यादयो ग्रन्था भारतीयसांस्कृतिकपरम्पराया महानिधयः सन्ति” इति।