You are here: Home » stories » 269

रामकृपैव गरीयसी

कनकपुरीं नाम नगरीं सुन्दरवनाख्यो नरपतिरन्वशासत्। अथ कदाचिदसौ क्षमापतिश्छन्नवेषोऽमात्यसमेतो निजराजधान्यां विहरन् भिक्षार्थिनौ द्वौ भिक्षुकावद्राक्षीत्। तयोरेकस्तु भिक्षाटनवेलायां ‘रामकृपा’ इत्युच्चैरुदघोषयत्, इतरश्च ‘राजकृपा’ इति।

ततो मन्त्री तावपृच्छत्—“रे भिक्षुकौ, ‘रामकृपा राजकृपा’ इति जल्पद्भ्यां वाभ्यां यद्भिक्ष्यते, कोऽस्यालापस्याशयः” इति।

तत्राद्यः प्राह—“अमात्य, चराचरात्मकमिदं जगज्जगन्नाथेन राघवेणैव त्रातं पुष्टञ्चास्ते। तदपाङ्गवीक्षणमन्तरा तृणमपि न स्पन्दते। अतस्तमेव भृशं भजमानोऽहं भिक्षे” इति।

द्वितीयस्तु भिक्षुक उवाच—“महाभाग, परोक्षो हि भगवान्, क्षमापतिरेव प्रत्यक्षा देवता। स चेत्प्रसीदेत्, तर्हि कमपि रङ्कं निमेषार्धादेव यक्षराजायमाणं विधातुमीष्टे। अतोऽहं राजानमेवानुध्यायन् भिक्षे” इति।

तद्वचो निशम्य तयोः सत्त्वं परीक्षितुकामो भूपतिस्तावुपस्थानभूमिमानाय्य ताभ्यामुपायनानि प्रादात्। यस्तु ‘राजकृपा’ इत्युच्चैर्जगाद, तस्मै नृपेण महारत्नगर्भितं तत्कूष्माण्डकं, इतराय च नूतनाम्बरं व्यतारि।

व्यतीतेषु कतिपयेष्वहस्सु भूपतिरमात्यश्च देशमटन्तावेकं ग्राममवापतुः। तत्र ताभ्यां स एव भिक्षुको ददृशे यः प्राङ्नगर्यां ‘राजकृपा’ इति याचमान आसीत्।

“किं मद्दत्तान्युपायनान्यवाप्यापि त्वमद्यापि भिक्षाटनमेव कुरुषे” इति नृपस्तमुपेत्यापृच्छत्।

भिक्षुकः प्रत्यवादीत्—“स्वामिन्, त्वद्दत्तं तत्कूष्माण्डकं मया रजतनाणकद्वयेन विक्रीतम्। तावता कदर्येण धनेन कथमहं धनपतिः स्याम्” इति।

तदनन्तरं ‘रामकृपा’ इत्युदाहरन् योऽयाचत सोऽपि ताभ्यामालक्षितः।

“प्राक्त्वं भिक्षुक आसीः खलु” इति राज्ञा पृष्टे, “बाढं महाराज” इत्यसावन्वमोदत।

“तर्ह्यधुना कथमेवं धनाढ्यः संवृत्तोऽसि” इति भूपतिनानुयुक्तः स प्रोवाच—

“महाराज, कतिपयेभ्यो दिनेभ्यः प्राङ्मम पितुरात्मशान्त्यै मयामुष्माद्भिक्षुकाद्रजतनाणकद्वयेनैव तत्कूष्माण्डकं क्रीतम्। महदाश्चर्यम्, तस्यान्तर्बहूनि हीरकाणि भूषणानि च मया विलोकितानि। श्रीरामचन्द्रस्य निर्व्याजकरुणयैवाहमीदृशं वैभवमवापम्” इति।

तन्निशम्य मन्दस्मितवदनो राजा जगाद—“सत्यमेतत्, सर्वस्यापि मङ्गलाय स एव सीतापती रामः कारणम्, न तु नृपतिः” इति।

Search
stories/269.txt · Last modified: 2026/08/19 12:54