कौशलप्रकर्षः
पुरा कोऽपि सार्थवाहप्रवरः स्वमात्मजं यौवनारम्भगर्वितमाजुहाव, मलपङ्ककलङ्कितं प्रावारकमेकं तस्मै समर्प्य चैनं पप्रच्छ - “वद वत्स, कियता मूल्येनास्य पणनं भविता?” इति। सूनुस्तु सहेलमाबभाषे - “मालिन्यदूषितमिदं चैलखण्डं को नाम पणितुमुत्सहेत?” इति। जनकस्तमादिदेश - “श्रूयताम्। त्वयैकस्माद् रूप्यकाद् न्यूनं नैतद्विक्रेयम्” इति। सूनुस्तथेति प्रतिज्ञाय तत्प्रावारकं सम्यक्प्रक्षाल्य निर्मलीचकार, पण्यवीथिकां गत्वा भृशं प्रयतमानो रूप्यकद्वितयस्यार्थे व्यपणीष्ट। तद्धनं समुपाहृत्य च जनकपादयोः समर्पयामास।
अथान्येद्युः पिता द्वितीयं चैलमादाय सुतमादिदेश - “दशभी रूप्यकैरिदं त्वया विपणनीयम्” इति। पुत्रकस्तदंशुकं समादाय चित्रकृतः सख्युरन्तिके तेन चारुचित्राङ्कितं व्यधाय। ततो विपणिं गत्वा तत्पञ्चदशभी रूप्यकैर्विक्रयसिद्धिमाससाद।
भूयोऽपि कदाचित् पिताऽन्यदंशुकं प्रदाय जगाद - “वत्स! दशभिर्दीनारैरेतस्य विपणनं कुरुष्व” इति। सूनुरपि तदादाय देवालयं प्राप्य देवप्रतिमायाः पुरस्तान्निधाय भक्तिप्रह्वः प्रणनाम। ततो बहिरागत्य मन्दिरस्याग्रत उच्चैरघोषयत् - “भो भोः श्रद्धालवः! भगवत्प्रसादपूतमिदं दिव्यमंशुकम्! यः कश्चिदेतद् धारयेत्, स ध्रुवमभ्युदयपरम्पराम् अश्नुवीत!” इति।
तदाकर्ण्य कश्चिद्भक्तः पञ्चदश दीनारान् दातुमैषीत्। तावदेवापरः पञ्चविंशतिं प्रतिजज्ञे। अन्यतमश्च चत्वारिंशतं दीनारान् प्रदित्सुः समपद्यत। तस्मै तत्प्रदाय चत्वारिंशतं सुवर्णान् सम्प्राप्य पुत्रः पित्रे न्यवेदयत्।
अनेनातीव परितोषनिर्भरः पिता सुतं पप्रच्छ - “वत्स, ब्रूहि, को वात्र बोधस्तवोपजातः?” इति। पुत्रः प्रत्युवाच - “तात! अज्ञासिषमहं यत्प्रयत्नेन किमपि न दुष्करमिति।” तदा जनको व्याजहार - “साधु वत्स, किन्त्वेतावन्मात्रं न। यथा खल्वचेतनस्यापि चैलखण्डस्य मूल्यमुपचीयते, तथैव मनीषिणा स्वकीयस्यापि जीवितस्य गौरवमाधातुं पार्यत इत्यवेहि।” इति।