राजधर्मपराकाष्ठा
औरससूनुराहल्याबाय्या मालेरावो नाम बभूव। तस्मिन् जातुचित् स्यन्दनेनाटति, तस्याभिमुखमापतन् कश्चन बालवत्सो रथचक्रेण निष्पिष्टः पञ्चत्वमाप। स्वचक्षुषा तर्णकप्राणोत्क्रमणमालोकयन्नपि निष्ठुरहृदयोऽसौ युवराजस्तमविगणय्याग्रेसरो बभूव।
अथ नातिदीर्घेणैव कालेन तेनैव वर्त्मनायान्ती राज्ञ्यहल्याबायी तत्रैव सम्प्रपेदे। विगतप्राणतर्णकं तत्पार्श्वे चाश्रुमुञ्चन्तीं शोकाकुलां गां निरीक्ष्य भृशं दुदुवे तस्याः करुणार्द्रं चेतः। स्यन्दनादवतीर्य सा प्रत्यक्षदर्शिनो वृत्तान्तमिमं पप्रच्छ। दारुणगोवधस्यास्य हेतुः स्वकीय एव सुत इति परिज्ञाय परं वैक्लव्यमाप सा न्यायनिष्ठा।
प्रतिनिवृत्य च राजप्रासादं, धर्मासनमध्यासीना सा धर्मसभासद एवं पप्रच्छ - 'यः कश्चिदिमं बालवत्सं यमसादनं निनाय, तस्मै कीदृशो दण्डो विधातव्यः?' तदाकर्ण्य धर्मशास्त्रविशारदा न्यायपण्डिताः प्रत्यवोचन् - 'प्राणदण्ड एव तस्योचितप्रायश्चित्तम्' इति। श्रुत्वैतदविगणय्य मातृस्नेहं सा सत्वरमादिदेश - 'प्राणदण्डेन शासनीयो मालेरावः। तदीयदेहोपरि रथचक्रं प्रवर्त्य हर्तव्यास्तदीयाः प्राणाः' इति।
दारुणमेतच्छासनमाकर्ण्य पौरजनाः परं विस्मयमुद्वेगं चाजग्मुः। व्यज्ञापि च तैर्बहुधा - 'सिंहासनस्यैवाद्वितीयोत्तराधिकारी खल्वयं युवराजः। तस्मादस्मै प्राणदण्डप्रदानं सर्वथा नैव न्याय्यम्' इति। तथापि न मनागपि चकम्पे न्यायनिष्ठाया राज्ञ्या दृढसङ्कल्पः। व्याजहार च सा गम्भीरगिरा - 'मालेरावप्राणदण्डोऽवश्यम्भावी' इति।
परन्तु युवराजदेहोपरि स्यन्दनं प्रवर्त्य तं निष्पेष्टुन्न कोऽपि सूतः सन्नद्धोऽभूत्। अतः स्वयमेव राज्ञी निजसूनोरुपरि रथं सञ्चालयितुं कृतनिश्चयोदतिष्ठत्। तस्मिन्नेवान्तरे मृतवत्सा सा धेनुः स्यन्दनस्याग्रतः समागत्य तस्थौ, अवरुध्य च वर्त्म रथस्याग्रेसरणाय नावसरं ददौ।
तदिदमद्भुतं दृश्यं विलोक्य पौरजनाः पुनरेवमवोचन् - 'नेच्छत्येषा शोकसन्तप्ता धेनुरपि युवराजस्योपरि रथसञ्चालनम्। अतोऽयं युवराजः क्षमामर्हति। सम्भाव्यास्या धेनोराशयं युवराजाय क्षमा प्रदातव्या' इति।
पौरजनानां सानुरोधविज्ञप्तिं मानयन्ती सा राज्ञी स्वनिर्णयं परिवर्तयामास। अनुशशास च निजपुत्रं दृढम् - 'इतःपरं कदापि तादृशं गर्हितं कर्म न त्वयाचरणीयम्' इति।