You are here: Home » stories » 303
← 302 
 304 →

विद्यागर्वप्रशमनम्

अधिजगे कश्चिन्माणवको निजदेशिकाद् धनुर्वेदम्, लेभे च तत्र निरवद्यं नैपुण्यम्। सतीर्थ्यैः सुहृद्भिर्वा निर्दिश्यमानं यत्किमपि लक्ष्यमवलीलया विद्धवान् स युवा तेषां भूरिशो भूयसीं प्रशस्तिं लेभे। अतो हेतोः, “धनुर्वेदे साक्षान्निजगुरुमप्यतिशेषे त्वम्” इति सुहृदोऽन्वहं तमुपश्लोकयामासुः। एतादृशं कर्णरसायनं चाटुवचनमाकर्ण्य प्रहृष्टान्तरात्मनस्तस्य माणवकस्य चेतसि कश्चनाहङ्कारो जज्ञे, ववृधे च।

विदाञ्चकार सर्वमेतं वृत्तान्तं तदीयो देशिकःः, तथापि मौनमेवाशिश्राय, न किञ्चिदूचे। अथैकदा देशान्तरं जिगमिषुर्गुरुस्तं युवानमादिदेश- “वत्स, मया सार्धमेहि” इति। स च दर्पान्धः शिष्यः सत्वरं तमनुवव्राज।

अध्वनि गच्छद्भ्यां ताभ्यां कश्चनातिगभीरो गर्तो ददृशे। तमुत्तितीर्षूणां कृते कस्यचित् तरोरेका क्षीणा शाखैव सेतुरूपेण न्यस्तासीत्। तामेव शाखां समारुह्य तन्मध्यदेशमधिष्ठितो गुरुः शिष्यमाजुहाव- “अये, कुत्र मया शरो मोक्तव्य इति तत एव स्थित्वा निर्दिश त्वम्” इति।

अदूरे तिष्ठन्तमेकं भूरुहं प्रदर्श्य शिष्यो जगाद- “अमुष्य तरोः शिखराग्रशाखायां विलम्बमानमेकं फलं निपातय” इति। निमेषार्धेनैव तल्लक्ष्यं निर्बिभेद गुरुः, अवलीलया च गर्तस्यापरं पारमुत्ततार।

तदनु शिष्योऽपि सेतुकल्पायां तस्यां शाखायां पादं न्यदधात्। सा च जीर्णा शाखा भृशं चकम्पे। कम्पमानायां तस्यां यावत् स भयोद्विग्नचेताः कथमपि मध्यभागं प्रापत्, तावदेव “तत्रैव तिष्ठ” इति चुक्रोश गुरुः।

दोधूयमानायां तस्यां शाखायां महता कृच्छ्रेण प्राणान् धारयन् तस्थावसौ।

पुनश्च गुरुस्तमन्वशात् - “यस्याः शाखाया मया फलं निपातितं, तस्यामेव लम्बमानमपरं फलं निपातय त्वम्” इति।

स्वकार्मुकमुद्यन्तुमीहाञ्चक्रे स युवा। परमधस्तात् पादयोः प्रकम्पमानायाः शाखायाः हेतोः स न तदुन्नमयितुं न वा शरासने इषुं सन्धातुं शशाक। भूयोऽपि यतमानस्य तस्य मनसि प्रपातभीतिरुदियाय। ततः स तारस्वरेण चुक्रोश - “हा हतोऽस्मि भगवन्! प्रपताम्यहम्। त्राहि माम्, त्राहि माम्” इति।

ततो गुरुः पुरो गत्वा शाखावलम्बिनं तं वेपमानं शिष्यं हस्तमवलम्ब्य परं पारमुत्तारयामास।

तदनन्तरं मौनमुद्रामवलम्ब्यैव ताभ्यां निजः पन्था अनुसस्रे।

समूलमुन्मूलितो जातस्तदीयो विद्यामदाहङ्कारः, यतो ह्यस्या अचिन्त्यघटनायाः प्रभावात् स शिष्यस्तत्त्वतो जज्ञौ यदद्यापि मया प्रचुरमध्येतव्यमवशिष्यत इति।

← 302 
 304 →
Search
stories/303.txt · Last modified: 2026/09/25 12:22