You are here: Home » stories » 305
← 304 
 306 →

धीरराजपुत्र्याः रत्नावल्याः कूटनीतिः

मरुदेशालङ्कारभूतस्य जयसलमेरराज्यस्य धराधीशो रत्नसिंहो नामासीत्। समराङ्गणविहारिणी निरुपमशौर्यशालिनी रत्नावली नाम तस्य दुहिता बभूव। कदाचिदल्लावुद्दीनस्य सेनाध्यक्षो मालिककाफरो दर्पान्धचेता रत्नसिंहं विजिगीषुर्महता सैन्यबलेन समभ्याययौ। प्रवृत्तश्च तयोर्लोमहर्षणो दारुणः सङ्ग्रामः। तस्मिन्महासमरे भवानीवापररूपा सा वीरबाला रत्नावली स्वयमेव जयसलमेरवाहिनीनां नायकत्वमूहे। समरारम्भाद्द्वित्रैरेवाहोभिः स मालिककाफरो नूनं रिपुहस्तगतः समभविष्यत्, परन्तु दैववशात्प्राणान् परीप्सुः स कातरः कथमपि रणाङ्गणादपचक्राम।

अदः शौर्यशालि सैन्यं बाहुवीर्येण जेतुमशक्यमिति सुनिश्चित्य, स दुरात्मा मायावी कूटनीतिं सिषेवे। कस्मैचिन्निष्किञ्चनराजपुत्रस्थविराय प्रभूतं काञ्चनमुद्राग्रन्थिं वितीर्य स तं बभाषे—“अये वृद्ध, दुर्गान्तर्भागं प्रवेष्टुं कञ्चिद्गुप्तं पन्थानं मे निर्दिश” इति।

तूष्णीम्भूते तस्मिन् स्थविरे, मालिककाफरो लोभमुत्पादयन् भूयोऽप्याह—“यदि त्वं दुर्गान्तःप्रवेशाय पन्थानं निर्दिशेः, तर्हि पुनरप्यहं विपुलं द्रविणं ते वितरेयम्” इति।

“बाढम्, विमृशामि तावत्” इत्युवाच स वृद्धः। अथ द्वित्राणामहोरात्राणामत्यये मालिककाफरस्य सङ्कल्पमुररीकृत्य स गम्भीरप्रकृतिः स्थविरो मालिककाफरीयान् कांश्चन योधान् दुर्गस्य शिथिलप्रदेशं प्रति निनाय। “शस्त्रागारमेवास्मान् प्रापय” इति सन्दिश्य मालिककाफरो मुदितमनाः पुनरपि हिरण्यमुद्राणां पञ्चसहस्रं तस्मै प्रादात्।

तान् सर्वान् सैनिकान् दुर्गस्याभ्यन्तरं प्रवेश्य कमपि पन्थानं निर्दिश्य स वृद्धो जगाद—“अनेनैव पथा यूयमग्रे गच्छत। अचिरादेव युष्माकमभीष्टं सेत्स्यति” इति।

ततस्ते मालिककाफरभटा विजयोत्फुल्ला इव परमोत्साहेनाग्रे प्रतस्थिरे। परन्तु क्षणाभ्यन्तरेणैव तेषामुत्साहो निर्मूलं ननाश। यतस्ते सर्वेऽपि सैनिकाः पर्णतृणादिभिराच्छादिते कस्मिश्चिद्विशाले मृत्युविवरोपमे गर्ते न्यपतन्। गर्तपातात्केषाञ्चिद्योधानां हस्तपादादिकमभाजि। अपरे केचन भृशं विक्षता अभवन्। तस्माद्गर्तादुत्थातुं कोऽपि न शशाक। “अहो, तेन स्थविरेण वयं विप्रलब्धा” इति तदा ते जज्ञुः।

तावत्येव गर्तस्योर्ध्वभागादशनिपात इव रत्नावल्या निनादः शुश्रुवे—“रे रे दुर्मार्गगामिनः! कुतन्त्रेणास्मदीयं दुर्गं प्रवेष्टुं यतमानैर्युष्माभिरनुरूप एव दण्डः समवापि। राजपुत्रान्वये सञ्जाता जना जात्वपि विश्वासघातं नोत्सहन्ते। युष्माभिर्यो धनग्रन्थिस्तस्मै प्रदत्तः, तद्विषये तेनार्येण स्थविरेण मह्यमेव न्यवेदि। अतः किं करणीयमिति मयैवासौ समुपदिष्टः। तस्यैव कूटप्रबन्धस्य परिणामोऽयं यद्यूयमिमां दुर्गतिमापन्ना” इति।

← 304 
 306 →
Search
stories/305.txt · Last modified: 2026/09/23 14:24