मयि ते, तेषु चाप्यहम्
कदाचन त्रिभुवनसञ्चारी देवर्षिर्नारदो द्वारकाधीशस्य कृष्णस्य देवसदनं प्रपेदे। तत्रस्थेन दौवारिकेण स इत्थं व्यज्ञापि - “भगवन् सुरर्षे, सम्प्रत्यन्तर्देवगृहे सपर्यायां व्यापृतो वर्तते देवः शौरिः। अतः क्षणमात्रमिहोदीक्ष्यताम्।” इति प्रतीहारगिरं निशम्य नारदस्य चेतसि परं कौतुकमुदपादि। स चैवं व्यमृशत् - “अहो बतातीव चित्रमेतत्! यमेव सकलभुवनपतयो नमस्कुर्वन्ति, स परमात्मा कमपरमुपासीत?” इत्थं तस्मिन् विस्मयमानचित्ते सति, कृतार्चनविधिर्भगवान् मधुसूदन आस्थानमण्डपं समुपाजगाम। तमायान्तं वीक्ष्य सस्मितं तुम्बुरुसखः पप्रच्छ - “हे कृष्ण, किमु त्वमप्यस्मानिव कञ्चिदन्यं देवमुपास्से? किं नु त्वं नहि सर्वदेवानामादिदेवः?” इति पृष्टोऽपि केशवः किमपि न प्रत्यवादीत्, केवलमीषदुत्फुल्लकपोलः स्मितमेव व्यतनोत्। अथ नारदेन भूयोऽप्यनुरुद्धः - “देव, यदि न गुह्यम्, तर्हि दर्शय मह्यं त्वदाराध्यं दैवतमिति।”
एवं तेनाभ्यर्थितो हरिस्तं मुनिं स्वकीयमार्चनागारं निनाय। तत्र प्रविश्य देवर्षिर्महता वैशाल्येन युक्तामेकां पेटिकां ददर्श। तां विलोक्य कौतूहलाविष्टः पुनरप्राक्षीत् - “किम् अत्रैवास्यां महत्यां पेटिकायां त्वया निहितं ते दैवम्?” भगवान् पुनरपि तूष्णीम्भूय तां पेटिकां विववार। तस्यामन्तर्निहितां पूर्वापेक्षया लघीयसीमन्यां स व्यलोकयत्। कृष्णस्तामप्यपावृणोत्। तत्राप्यन्या ततोऽपि लघीयसी। पुनरपि तस्यामपरा क्षोदीयसी। इत्थमेव क्रमः प्रववृते।
एवं सप्तसु पेटिकासु क्रमेणोद्घाटितासु सतीषु, सप्तम्यां क्षोदिष्ठायां पेटिकायां चीनांशुकवेल्लिताऽन्या लघुतमा हैमी समुद्गिका व्यराजत। तस्यां च समुद्गिकायां निहितमल्पीयांसं पांसुपुञ्जं ददर्श सुरर्षिः। तं रेणुं दृष्ट्वा किञ्चित् सोपहासं हसन् नारदः कृष्णमुपालभमान इवाबभाषे - “भगवन्, किमयमेव स पांसुलेशस्तवाभ्यर्चनीयो देवः?” तदा स्मयमानो भगवान् गम्भीरया गिरा जगाद - “मुनिवर्य, ये खलु मदनुग्रहभाजनानि सन्तो ममोपकाराय प्रायतन्त, तेषां महात्मनां पादपङ्कजरेणुमेवाहमिह निदधामि। एतमेव चाहर्निशं सपर्यामि। इदमेव मम परमाराध्यं तत्त्वम्।” इति भगवद्वाणीं निशम्य देवर्षिरधिगतपरमार्थो बभूव।