You are here: Home » stories » 321

अदृश्यो हि रक्षकः

पितरं प्रति जातु कश्चिद्युवा बभाषे— तात! दारुणतमास्वापत्स्वपि धैर्यमच्युतं यथा स्यात्, तथा जीवितुमुत्कण्ठे। तत्सिद्ध्यर्थं किमनुष्ठेयं मयेति।

प्रत्युवाच च तं पिता— “विद्यते खल्वेकः पन्थाः। मत्सह त्वया गहनमरण्यं प्रवेष्टव्यम्। तत्र निबिडान्धकारे तव नयने पटलेन बद्ध्वाऽहं प्रतिनिवर्तिष्ये। यावदरुणोदयमवश्यं त्वया तत्रैव स्थातव्यम्। बाधेत त्वां तुषारः, श्रूयेरन् क्रव्यादगर्जितानि, प्रहरेच्च वात्या। तथाप्यकम्पितेन चेतसा त्वया तत्रैव स्थातव्यम्। कच्चित् पारयेथा इदं दुश्चरं कर्म कर्तुम्?” इति।

कञ्चित् कालं विमृश्य सूनुः प्रतिजगाद— “बाढम्, सज्जतामागतोऽस्मि। क्षपैकैव खलु नेतव्या मया? नूनं सम्पादयिष्याम्येतत्” इति।

अथ परेद्युर्निशि जनको निजसुतं विपिनमनैषीत्। आसीत्तत्र सूचीभेद्यं सान्द्रं तमः। कस्यचिन्महीरुहस्याधस्तात् तमुपवेश्य, नयने च वसनखण्डेन गाढं बद्ध्वा स व्याजहार— “नैव केनचिदपि हेतुना प्राभातिकवेलायाः प्राक् त्वया नयनबन्धोऽयमुद्घाटनीयः। यद्युद्घाटयेः, तर्हि परीक्षामिमां विफलीकुर्याः” इत्यादिश्य ततः प्रतस्थे।

स च युवा ततस्तरोर्मूले धैर्यावष्टम्भेन निषसाद। व्यतीयुर्यामाः। कुतश्चन फेरुवाशितानि शुश्रुविरे। अन्यतो व्याघ्रगर्जितैर्दिङ्मुखमपूरि। अतुदच्चातिमात्रं तुषारः। ववौ चण्डो मारुतः। निकटे खलु मक्षिकाणां गुञ्जितमन्वभावि, पार्श्वे च भुजङ्गमानां सरणं तेनान्वमायि। पदे पदे सञ्जाता भीतिः— 'कुतो वा कापदुपनिपतेत्' इति नाज्ञायत। तथापि धैर्यमवलम्ब्य तूष्णीमेवातिष्ठत्सः।

अन्ते च कथमपि व्यपागच्छत्सा कालरात्रिः। बालसूर्यकिरणस्पर्शमनुभूय प्रहृष्टेनान्तःकरणेन स नयनबन्धं मुमोच। महदाश्चर्यं यन्नातिदूरे तस्य जनको निषण्ण आसीत्। पितूरक्ते लोचने एव नूनमसूचयताम् यत् कृत्स्नां त्रियामामतन्द्रितः स जागार इति।

सुतं गाढमालिङ्ग्य सस्नेहं व्याजहार पिता— “वत्स! समुत्तीर्णोऽसि मदीयायां परीक्षायाम्। 'अत्रैवाहमस्मी'ति न त्वया व्यज्ञायि। तथापि तव गुप्तये कृत्स्नां शर्वरीमहं त्वया सार्धमेवावात्सम्। नूनममंस्थाः— 'एकाक्यस्मि' इति। किन्तु जगति न कोऽपि जातुचिदेकाकी भवति। सर्वसाक्षी परमेश्वरः सर्वदा तेन साकं तिष्ठत्येव। तदजानन्तो वयं 'निःसहाया वयम्' इति विषण्णा भवामः। 'सर्वगः परमेश्वरः सदा त्वया सहैवास्त इत्येतद्धृदये धारय। तच्चाविस्मरणं त्वय्यपूर्वं धैर्यमुत्पादयिष्यति, व्यसनकाले च त्वामवश्यमुद्धरिष्यति” इति।

Search
stories/321.txt · Last modified: 2026/10/09 12:48