You are here: Home » stories » 322

अपूर्वो हि सेवाधर्मः

पल्लिग्रामे कस्मिंश्चित् पुरा सुसंस्कृतः कश्चन परिवार उवास। ग्रामान्तरं प्रतस्थे तदीयप्रतिवेशिनी काचित् स्वकार्यव्यासङ्गात्। पचनव्यापाराय अमुष्मिन् वेश्मनि न कोऽप्यन्योऽविद्यत, अमुष्याः पतिश्च पाककलायां सर्वथानभिज्ञ एवासीत्। 'आ प्रत्यावर्तनात् मे त्वया पाकसाहाय्यं विधेयम्' इति प्रस्थानात् प्रागेव सा सुसंस्कृतपरिवारस्य गृहिणीमयाचत। अमूमभ्यर्थनाम् उरीकृत्य सा साध्वी प्रत्यहं स्वगृहे पाकं निर्वर्त्य तदनु प्रतिवेशिवेश्मनि पक्तुं ययौ।

तनयः कश्चित् अल्पवयस्को 'विनुः' इति नाम्ना अमुष्याः गृहिण्या आसीत्। प्रत्यहं साहाय्यार्थं प्रतिवेशिवेश्म गच्छन्तीं मातरमसौ नित्यं ददर्श। पप्रच्छ चैकदासौ जननीम्—“मातः! पच्यते त्वया प्राथम्येन निजगृहे, पश्चाच्च गम्यते प्रतिवेशिभवनं पक्तुम्। किमुचितमिदम्? परकार्यं हि प्रथममनुष्ठेयम्, तदनु स्वकार्यमिति खलु सतां धर्मः।“

डिम्भस्याप्यमुष्य तादृशमुदात्तं सेवाभावं निशम्य प्ररूढं च सुसंस्कारं विलोक्य नितरां जहर्ष सा जननी।

ततः सा सवात्सल्यं तनयमेवमवादीत्—“वत्स! यद् ब्रवीषि तत् खलु युक्तिसङ्गतमेव। परकार्यं प्रागेवानुष्ठेयमित्यत्र नास्ति कोऽपि सन्देहलेशः। तथापि सेवाचरणकाले सूक्ष्मेक्षिका खल्वाश्रयणीया। यदहं पचनाय पश्चात् प्रतिवेशिनो वेश्म गच्छामि, तदपि न्याय्यमेव। यतः प्रतिवेशिभिरुष्णा एव रोटिका आस्वाद्येरन्निति मे हार्दिक आशयः। अस्मदीयमशनं शीतलं भवेदपि, न तेन कापि हानिः, किन्तु प्रतिवेशिभिस्तूष्णा एव रोटिका आस्वाद्या इति मदीया मनीषा।”

मातुरीदृशमुदात्तमाशयमधिगम्यासौ बालो नितरां परितुतोष। जग्राह च स तदानीं सेवायाः कमपि लोकोत्तरं पाठम्। गच्छता च कालेन स एव 'विनोबा भावे' इति नाम्ना भुवि प्रथितां ख्यातिं लेभे।

Search
stories/322.txt · Last modified: 2026/10/10 12:02