You are here: Home » stories » 43
42 
 44

औदासीन्यविपाकः

पुरा कश्चिद् बालो बभूव, धिषणया प्रकृष्टोऽपि चेष्टायां नितरां शिथिलप्रयत्नः। स कदाचन कानने विचचार। अथ तत्रैनं जरठः कश्चिदुपसृत्य जगाद – “अरे वत्स, तवैवाध्वनि इतो नातिविप्रकर्षे कस्मिंश्चिदन्धुकूपे प्रभूतनिधयो मणीनां विद्यन्ते, ये तवोपकाराय कल्पेरन्। तद् यदि तेऽभिलाषः स्यात्, आदातुमर्हसि तान्” इति।

स बालस्तु मणीन् अभिललाषैव, किन्तु कूपान्तिकगमनाय मन्दादरः सोऽभूत्। मनसि चेत्थं व्यमृशत् – ‘अद्य तावदेतानि रत्नानि नोपाददे। भूयः कदापि उपादास्ये’ इति।

अथ कियतापि कालेन गतेन स जरठः पुनस्तमुपजगाम। बालकमाहूयैवमवोचत् – “भद्र, तवैव पथि वर्ततेऽपरोऽन्धकूपः, यत्र नानाविद्याग्रन्था निहिताः सन्ति। तेष्वात्तेषु ते महान् अर्थः सिध्येत्” इति।

बालो भूयोऽपि दध्यौ – ‘प्राङ्निर्दिष्टे कूपे मणय आसन्, अत्र तु पुस्तकानि। गुरुणि चैतानि। एतान्यादाय कथमध्वनि विचरेयम्? तस्मादेतानि उत्तरकाले ग्रहीष्यामि’ इति।

अथ भूयः कालेऽतिक्रामति स वृद्धस्तं पुनरभ्यगात्, उवाच च – “यत् पूर्वं मया कूपयुगलमाख्यातं, तत्र मणयः पुस्तकानि चासन्। अन्यत्र तु कूपे प्राणधारणोपयोगीन्यगदानि सन्ति। एतेषामुपयोगात् त्वं चिरायुर्भवितासि” इति।

बालो व्यचिन्तयत् – ‘साम्प्रतं भृशं क्लान्तोऽस्मि, अन्यस्मिन्नवसरे कदाचिदेतान्युपादास्ये’ इति। एवं दिनेषु यातेषु, अथैकदा स बालो द्रविणस्यावश्यकतामन्वभूत्। स तस्य स्थविरस्य वचः सस्मार, झटित्यरण्यं गत्वा तेषां कूपानां गवेषणामारेभे। किन्तु रत्नगर्भं तं कूपं द्रष्टुं नाशकत्। ततः स ग्रन्थपूर्णं कूपमन्वेष्टुं प्रायतिष्ट, सोऽपि नासादि। तृतीयश्च भैषज्यपूर्णोऽपि कूपोऽन्तर्दधे।

तदानीं सोऽबुध्यत – ‘अहो मम प्रमादादेव द्रविणं विद्या दीर्घमायुश्च करतलाद् गलितम्! यावदौदासीन्यं तावदियमेव विपत्तिः। अतो यद् यस्मिन् दिनेऽनुष्ठेयं, तत् तस्मिन्नेव समाचरेत्। ‘श्वः करिष्ये परश्वो वा’ इति दीर्घसूत्रतैव सर्वानर्थमूलम्’ इति।

42 
 44
Search
stories/43.txt · Last modified: 2025/12/28 05:13