सौहृदबलम्
आसीत् कश्चिन्नराधिपः। तस्य किलात्मजौ द्वावभूताम्। कतरस्तयोरात्मसाम्राज्यधुरं वहेदिति महीपालश्चिन्तामापेदे। तत एकदा स सुतावाहूयादिदेश - “युवयोः कृतेऽहं पञ्चाशत्सहस्रमितानि सुवर्णनाणकानि प्रदास्यामि। युवामेकेन हायनेन पञ्चाशत्सु ग्रामेषु नः परिचारकसमुचितानि सदनानि निर्मापयेतम्। देशान्तराटनादिके काले यदि वासोऽपेक्ष्येत, तर्हीमानि वेश्मानि उपकारकाणि जायेरन्। तेषु च सदनेषु अस्मदभिरुचिमनुसरन्ती सकलापि व्यवस्था विधेया। वत्सराभ्यन्तरे चेदं कर्म समापनीयम्। यश्चेदं कर्म साफल्येन निर्वहेत्, स एवामुष्य राष्ट्रस्य धौरेयो भवितुमर्हतीति”।
नृपादेशमिमं शिरसा प्रतिगृह्य तौ द्वावपि राजपुत्रौ जनकेन प्रदत्तं द्रव्यमादाय स्वसौधात् प्रतस्थाते। व्यतीयाय संवत्सरः। नृपेण निर्दिष्टेऽहनि तावुभावपि पुनराजग्मतुः, स्वकर्मवृत्तान्तं च राजानमशिश्रवताम्। तत्रार्यजो राजपुत्रो जगाद - “तातपादाः, युष्माभिस्तु मह्यं स्तोकमेव वित्तं व्यश्राणि। समयोऽपि स्वल्प एवाकल्पि। स्तोकेन वित्तेन स्वल्पेनैव च कालेन किमिति नामेदं महनीयं कर्म साधयितुं पार्येत? मया तु संवत्सरेण दशसु ग्रामेषु गृहाणि निर्मापितानि। अपरत्र दशसु ग्रामेषु निर्माणव्यापारः प्रवर्तते। इतरेषु तु ग्रामेषु धनाभावादेव गृहनिर्माणमारम्भमपि नागच्छत्” इति।
अथ कनीयान् राजसूनुस्तु राज्ञा दत्तं निखिलमपि वसु तस्मै प्रत्यर्पयामास। तदवलोक्य राजा तमपृच्छत् - “किं त्वया गृहनिर्माणाय कोऽपि यत्नो नैवाविहितः?” इति। तदा कनिष्ठः स्मितं कृत्वा प्रत्युवाच - “आवासनिर्माणप्रयासस्य का नु प्रयोजना? पर्यटनेषु चेद्वासावश्यकता पतेत्, तर्हि खलु सदनान्युपयुज्यन्ते? मया तु तादृशान्येव सदनानि सम्पादितानि”। तच्छ्रुत्वा राजा व्याजहार – “न मया त्वद्वचसोऽभिप्रायोऽधिगतः”। तदा कनीयानब्रवीत् – “मया पञ्चाशतोऽप्यधिकेषु ग्रामेषु मित्राण्यर्जितानि सन्ति। यर्हि वयं तेषां ग्रामानुपसर्पेम, तर्हि ते प्रहृष्टात्मानोऽस्मान् सादरमातिथ्येन विशेषतः सम्भावयिष्यन्ति। अत एव मया कुत्रापि भवननिर्माणक्लेशो नानुभूतः” इति। राजा प्रमुदितः सस्नेहमुवाच - “साधु वत्स, साधु! यत्र हि नः स्वजनाः सुहृदश्च विद्यन्ते, तत्र निजगृहस्य नास्त्यपेक्षा। य इदं तत्त्वं वेत्ति, स सर्वत्रैव स्वागतं सत्कारं प्रेम च लभेत। राजनि चायं गुणोऽवश्यमेव स्यात्। त्वमेवास्या मम राजश्रियः पदभाग् भवितुमर्हसि” इति।