परमात्मदत्तपरितोषः
कश्चिदासीन्महात्मा यस्य नामधेयं दिक्षु विदिक्षु च पप्रथे। तस्य दिदृक्षया कदाचन कश्चन भक्तिमान् तदुटजमाजगाम। तेन समं संलपन्नसौ महात्मा तस्यां विभावर्यां तस्मिन्नेवाश्रमे तमुवासयामास।
अथ शयनकाले समुपस्थिते स यतिस्तस्मै भक्ताय शयितुमेकं कटं प्रादात्। स्वयं पुनरेकां शर्करां शिरोधानतामुपनीय कटे प्रसारितगात्रः सुखं सुष्वपे।
भक्तस्तु तां निशां न कथञ्चिदपि निद्रामलभत। महता कृच्छ्रेण स तां क्षपामनैषीत्। व्युष्टायां रजन्यां स भक्तस्तं महात्मानं बभाषे - “भगवन्! किमिति भवानेवंविधं कृच्छ्रजीवितं वहति?” इति।
महात्मा व्याजहार - “कुतोऽत्र कृच्छ्रता? अहमतिशयेन सुखित एवास्मि।” भक्तः पुनरवोचत् - “कीदृशीयमात्यन्तिकी सुखिता? शिरोधानं ते केवलमेका शर्करा, शयनीयं च जरत्कटमात्रम्। मम बहव आढ्याः सुहृदो विद्यन्ते। तान् संप्रार्थ्य अहं तुभ्यमुत्तमशय्योपधानादिकं सर्वं प्रकल्पयेयम्।”
इति श्रुत्वा महात्मा मुहूर्तं विरम्य जगाद - “मद्विषये तव सद्भावोऽयं स्थविष्ठ एव। किन्त्विदं तावद् ब्रूहि - तव सुहृदः सर्वेऽपि, ममापि च, य एक एव धनादेर्दाता, स किं नैक एव परमेश्वरः?” “सत्यम्। स एक एवाद्वितीयः” इति भक्तः प्रत्युवाच।
महात्मा पुनरब्रवीत् - “तर्हि किं मयेदं विचारणीयम्, यदसौ परमेश्वरो मां धनवितरणे विसस्मार, तव सुहृदस्तु तेन विशेषेण संस्मृता इति? यद्यसौ मामेव विस्मृतवान् स्यात्, मयापि स कथं स्मारणीयः?” “तत्स्मारणे को वा दोषः स्यात्?” इति भक्तः पुनरपृच्छत्।
“सदोषा स्मृतिर्निर्दोषोति वा एतदन्यत्। यदस्मै रोचते, तदेवाहमपि रोचये। तेन यत्प्रत्तं तदेव मम परमानन्दकारणम्। यदा परमानन्दकारणं वस्तु विद्यते, तदा किमर्थमन्यस्य याच्ञा? यावदनेन मे दत्तं, तावतैव परितुष्टोऽस्मि” इति महात्मा प्रत्यवदत्। ‘ईदृशेन विचारसत्वेनैव भवान् महात्मा संवृत्तः’ इत्यात्मगतं चिन्तयन् स भक्तस्तस्मै महात्मने प्रणम्य तस्मादाश्रमात् प्रतस्थे।