निष्ठायाः परमोत्कर्षः
आसीत् कश्चिन्नरपतिर्निजप्रजारञ्जनकोविदः, यस्य शासनेन सकलाः प्रकृतयः परितोषमुपागताः सुखेन न्यवसन्।
अथ कदाचित्तस्य महीपतेर्मनसि विचिकित्सा काचिदुदपादि – ‘राष्टस्य जीवने नु किन्नाम तत्त्वं सर्वोत्तमामर्हामादधाति?’ इति। परेऽहनि स भूपालः स्वामात्यान् पर्युपासीनस्तामेव जिज्ञासां तेषां पुरस्ताच्चकार। तत्र च सभास्तारैर्नानाविधानि प्रत्युत्तराणि न्यगादिषत। तेषु विषयेषु प्रभूता विमर्शाः समजायत। पर्यन्ते चेदं न्यरचायि यद्बलसमृद्धिर्धान्यसम्पद् राष्ट्रियनिष्ठा चेति तत्त्वत्रयमेव प्रधानमिति।
‘अमीषु त्रिषु पुनः कतमदेकं तत्त्वं गरीयः?’ इतीत्थं पार्थिवस्य चेतसि भूयोऽपि कौतूहलं प्रादुरभूत्। एकदा स नृपः कमपि यतिवरं ददर्श तस्य पुरतश्च स्वकीयं तं संशयं न्यवेदयत्। मुहूर्तमात्रं निध्याय स मुनिरवोचत् – “तत्त्वत्रयमिदं सर्वमप्यतीव महत्त्वपूर्णमेव। तथाप्यगतिकायां गतौ यदि किञ्चिदेकं हापनीयं भवेत्, तर्हि सेनां हापयेत्। यतो हि बलसमुदायेन विनापि राष्ट्रं कथमपि जीवेत् खलु कदाचित्।”
नराधिपः पप्रच्छ – “धान्यसम्पदो राष्ट्रनिष्ठायाश्चैतयोर्द्वयोः कातरा परित्याज्या स्याद्यद्येका परित्यागमर्हेत्?” मुनिरुवाच – “ईदृशि निरुपाये प्रसङ्गे धान्यसम्पदं परित्यजेयुः।”
“तर्हि राष्ट्रनिष्ठैव सर्वानतिशेते इति भवतः सिद्धान्तः किल? अस्यैवंविधानिर्णयस्य को नु हेतुर्विद्यते?”
“राष्ट्रे भक्तिरस्तु प्राणेभ्योऽपि गरीयसी। तस्यां विरहितायां बलधान्यसमृद्धिभ्यां सत्यामपि राष्ट्रं न स्थैर्यमेष्यति। यदा तु सा निष्ठा जागर्ति, तदैव सैन्यस्य सम्पदेश्च कृतार्थता सिद्ध्येत्। किञ्च, यदि सा निष्ठा विद्येत तर्हि बलवैधुर्येऽपि राष्ट्रमापत्सु स्थातुं प्रभवेत्। सैव विपदि दृढीयानाश्रयः। तस्यां हि सतीं प्रनष्टा अपि सेना सम्पच्च पुनरपि लभ्येरन्। निष्ठायां तु विनष्टायां सा कथमपि पुनर्नासादयितुं शक्येत। अत्रार्थे इतिहासः प्रभूतैरुदाहरणैः साक्षीभवति। तस्माद्राष्ट्रनिष्ठा महता यत्नेन परिरक्षणीया, तस्या अभिवृद्ध्यै च नैरन्तर्येण यतितव्यम्।” इति मुनेर्वचसा परं परितोषमवाप्य स सम्राट् तं भक्त्या प्रणम्य तस्मात् स्थानान्निरगात्।