You are here: Home » stories » 57
56 
 58

माणवकस्य नैस्पृह्यम्

तुषारसमये कस्मिंश्चिन्निशीथे शिष्यनिलये केचन दरिद्रा माणवका ऊषुः। हिमबाधाप्रतिकाराय न हि तेषां पार्श्वे और्णिकादिवस्त्राणि बभूवुः। अत एव ते सदनस्याङ्गणभुवि समिधः समाधाय, तदनलपरितः समुपविश्य स्वाध्यायेष्वात्मानं युयुजुः।

अथ कदाचन वैश्वानरं परिसेवमानेषु तेषु माणवकेषु स्वाध्यायलीनचेतस्सु, कोऽप्यध्वगस्तानुपसृत्य पप्रच्छ – “अहो बतातिमात्रमिदं शिशिरम्! अपि नामाहं युष्माभिरनुमतोऽत्रानलस्य समीपे निषीदेयम्?” इति। ते च तं प्रत्यब्रुवन् – “आर्य, निषीदतु भवान् यथाकामम्” इति।

स चाध्वगस्तत्र मुहूर्तमात्रमुषित्वा हिमार्तिं प्रशमय्य, तेभ्यः साधुवादं वितीर्य तस्माद्देशात् प्रतस्थे।

अथ कियत्यपि कालेऽतिक्रान्ते, पठने दत्तचित्तस्य कस्यचिच्छात्रस्य दृक् तस्मिन् स्थाने पपात, यत्रासावध्वगो निषसाद। तत्र तेन कश्चिद् धनग्रन्थिरदर्शि। तद्विमोचनाच्च तेनावगतं यदस्मिन्नन्तर्भूयिष्ठं द्रव्यं विद्यते इति।

तां वसुग्रन्थिसंप्राप्तिमवगम्य तस्य सतीर्थ्याः प्रोचुः – “अहो दिष्ट्या वर्धामहे वयम्! अनायासेनैव प्रभूतं द्रविणं नो हस्तगतम्!” इति। स तु माणवकः प्रत्याह – “अमुष्यैवाध्वगस्येदं धनम्। नास्य ग्रहणेऽस्माकमधिकारः कश्चित् प्रवर्तते” इति।

ततः स निजपुस्तकं प्रकोष्ठे निधाय तं वसुग्रन्थिमादाय, येन पथा स पान्थो जगाम तेनैव पथा धावितुमारेभे।

किञ्चिद्दूरं धावित्वा च तेनासौ पान्थो ददृशे। तस्मै तं ग्रन्थिमुपहृत्य स माणवको जगाद – “आर्य! प्रमादाद् भवता वैश्वानरसविधेऽयं ग्रन्थिर्विस्मृतः। अस्मिन् सकलं द्रव्यमस्ति न वेति संख्याय निरीक्ष्यताम्” इति।

तस्य माणवकस्य तादृशं नैस्पृह्यमार्जवं चावेक्ष्य प्रीतमानसः सोऽध्वगस्तस्मै पारितोषिकरूपेण कानिचिद् रजतनाणकानि दित्सति स्म। माणवकस्तु तत्प्रतिग्रहं प्रत्याचख्यौ। अथ पान्थ उवाच – “साधो! त्वदीयैर्गुणैः परितुष्टोऽस्मि, तदिदं पारितोषिकं गृह्यताम्” इति। माणवकः पुनरवादीत् – “आर्य! भवदीयमेव द्रव्यं भवते मया प्रत्यर्पितम्, एतत्खलु मम कर्तव्यम्। कृतस्य कर्तव्यस्य कृते नाहं किञ्चित्प्रतिफलं स्वीकर्तुमुत्सहे। भवानाशिषैव मामनुगृह्णातु, तावतैव कृतार्थोऽहं भविष्यामि” इति।

माणवकस्य नैस्पृह्येण भूयस्तरां प्रभावितः सोऽध्वगः – “आयुष्मान् भव, सर्वदा श्रेयसा युज्यस्व” इत्याशिषा तं योजयामास।

56 
 58
Search
stories/57.txt · Last modified: 2026/01/09 16:34