राज्ञो यशस्करदेवस्य न्यायसूक्ष्मता

काश्मीरमण्डलमन्वशासद्दशमशताब्द्यां यशस्करदेवो नाम प्रजावात्सल्येन प्रथितो नरपतिः। धर्मासनमध्यासीने कदाचित्तस्मिन्, कश्चिद्दौवारिकः ससम्भ्रममुपसृत्य व्यजिज्ञपत्—“देव! प्रायोपवेशनेन कोऽपि भद्रमुखो राजप्रासादद्वारि प्राणान् प्रजिहासति” इति।

अश्रुतपूर्वमिदमाकर्ण्य सद्य एव तमाहूय पप्रच्छ विशां पतिः—“भद्र! कच्चित्ते धर्मानुष्ठाने कोऽप्यन्तरायः समजनि? उताहो मदीयेनाधिकृतेन केनापि त्वयि किमप्यपचरितम्?” इति। “देव! प्राड्विवाकेनैवास्मिन्मम व्यवहारे कश्चिदन्याय्यो निर्णयः श्रावितः” इति सविषादं न्यगादीत्स महाभागः।

“कथमिवैतत्? अद्यावधि मदीये राज्ये न्यायस्य निरपवादं गौरवं परिरक्षितमेव। तत्कथमिदानीमेवमघटमानं समपद्यत? यद्वृत्तं तत्सर्वमविकलमावेद्यताम्” इति साश्चर्यमाज्ञापयत् पृथ्वीपतिः।

स तदाचचक्षे—“देव! प्रागेतस्यामेव राजधान्यामहं न्यवसम्। प्रभूतञ्च मे द्रविणमासीत्। दौर्भाग्यात्तु निष्किञ्चनतां गतेन मया स्ववेश्मापि विक्रीतम्। कलत्रस्याजीविकायै केवलं कूपसनाथः कश्चन भूभाग एव मयावशेषितः। तस्य कूपस्य सलिलेन परिचारकैः कुसुमानि संवर्ध्य, विरचितस्रजश्च विपणौ विक्रीय यदर्जितं वसु, तत्पत्न्या अदीयत। द्रविणोपार्जनाय देशान्तरं गतोऽहं यावत्प्रत्यावर्ते, तावन्मे पत्नी तस्मात्कूपसहिताद्भूभागादपि निष्कासितासीत्। अथ धर्माधिकरणे मयाभियोगः समुपस्थापितः, परं न किमपि न्याय्यं फलमवापि” इति।

एतदाकर्ण्य तूर्णमेव प्राड्विवाकमाह्वयामास नृपः। “मया तु धर्म्य एव निर्णयः प्रणीतः” इति स प्रत्यवादीत्। तदनु स वेश्मनः क्रेता कोऽपि महाधनिकः श्रेष्ठ्यानायितः। तदीयाङ्गुलिप्रोतमङ्गुलीयकं कुतूहलाक्रान्त इव समादाय निरूपयन् राजा “यथास्थानमुपविशत” इति सामाजिकानादिश्य स्वयं बहिर्जगाम। साभिज्ञानं भटमुखेन तां मुद्रिकां तद्धनिकनिवेशनं प्रेषयित्वा तद्गृहक्रयणशासनपत्रमनाययत्।

प्रत्यावृत्य च धर्मासनमध्यासीनः स राजा तच्छासनपत्रं सुनिपुणं परिशील्य समभाषत—“अत्र गृहक्रेत्रा श्रेष्ठिनामुष्मै राजलेखकायाधिकरणशुल्कतया सहस्रं सुवर्णमुद्राः प्रदत्ता दृश्यन्ते। किमर्थमेतावत्प्रभूतं धनममुना दत्तं स्यात्? नूनमुत्कोचलोभेन राजलेखकः ‘सोपानकूपरहितं गृहम्’ इति लेखनीये स्थाने ‘कूपसहितं गृहम्’ इति कूटमलेखीदिति मे प्रतिभाति।”

अथ सत्वरमाकारितो राजलेखकः। भयात् प्रकम्पमानः स स्वकमपराधमुररीचकार। अथ नृपतिस्तां कूपसमेतां भूमिं समग्रं भवनं च तस्य मूलस्वामिन एव प्रत्यर्पयित्वा तं कूटक्रयणकर्तारममुं धनिकं स्वराष्ट्रात् प्रवासयाञ्चकार।