You are here: Home » stories » 318
← 317 
 319 →

आत्मोन्नत्यै विधेया त्वरा

आहूयाशेषानन्तेवासिनः कदाचिद्भगवाञ्छाक्यमुनिः स्निग्धगम्भीरेण स्वरेण बभाषे—“शृणुत भिक्षवः! आगामिनि चतुर्थे मास्यस्य जनस्य परिनिर्वाणं समन्ताद्भावि। तदनन्तरं नेदं पाञ्चभौतिकं वपुर्धरायामवशिष्येत। तस्मात्ततः प्रागेव यद्यदाचरणीयं तत्तत्सर्वमविलम्बमेवानुतिष्ठत। कनीयान् खल्ववशिष्टोऽधुना कालः” इति।

तामेतामशनिपातकल्पां दारुणामवसानवार्तामुपश्रुत्यामी सर्वेऽपि विनेयास्तीव्रविषादसागरे निममज्जुः। मुमुचुरश्रूणि केचित्, तत्यजुश्चान्नपानादिकमपरे। दिग्भ्रान्त्या किङ्कर्तव्यताविमूढा बभूवुश्चान्ये। सर्वतश्चातङ्कमयी काचिदुद्वेगजननी विषमस्थितिः प्रादुरभूत्।

सुगतस्य मुख्यतमेष्वन्तेवासिष्वेकतम आसीत्तिष्यो नाम। श्रुत्वैतामवसानवार्तां स खलु नितान्तं मौनमेवाशिश्रियत्। न तेनाक्ष्णोर्बाष्पबिन्दवः पातिताः, न वा किमपि विलपितम्। तदीयामिमां निस्पन्दामपूर्वामवस्थामवेक्ष्येतरे श्रमणाश्चिन्तयामासुः—“नूनमयं दारुणेन घातेनाहतो विगतचेष्टो वर्तते। यद्येषैव दशामुष्यानुवर्तेत, तर्ह्ययमुन्मादं गच्छेत्” इति। अतस्ते भगवत्समीपमुपसृत्य ययाचुः—“स्वान्ते निगूढतीव्रशोकस्तिष्यो वाचंयमः सञ्जातः। मतिवैकल्यादसौ त्वयैव परिरक्षणीयः” इति।

तदाकर्ण्य तिष्यमाहूय कारुण्यपूर्णो भगवानुवाच—“भद्र! एते तव सतीर्थ्यास्तवामुष्या मनोदशायास्तत्त्वमवगन्तुमुत्कण्ठन्ते। तस्मात्त्वमेव तां व्याकुरु” इति।

तदा तिष्यो जगाद — “भगवन्! यदनुष्ठेयं तत्र न जातु कालहरणं विधेयमिति खलु त्वया पुरानुशिष्टम्? तव निर्वाणात्प्रागेव मयि विद्यमानोऽहङ्कारो यदि समूलमुन्मूलितः स्यात्, तर्ह्यतीव शोभनं भवेत्। अत एवाहं तवानुग्रहं लिप्समानः सर्वदा ध्याननिष्ठायामेवावतिष्ठे। ध्यानदशायां च मौनावलम्बनं निसर्गसिद्धमेव। यथायं मे यत्नः साफल्यमासादयेत्, तथा मामनुगृहाण” इति।

तच्छ्रुत्वा मन्दस्मितं कुर्वंस्तिष्यमाशीर्वादेनानुगृह्य भगवानन्यानन्तेवासिनोऽन्वशात्—“पश्यत यूयम्! हाहाकारप्रलपनादिभिर्न किमपि सिद्ध्यति। कुसुमस्रगादिभिर्मदीयमूर्तेरर्चनेनापि न कोऽपि पुरुषार्थो लभ्यते। यस्तु पुमान् ध्यानादिभिरात्मोन्नतिं साधयितुं यतते, स एव पारमार्थिकमुत्कर्षमधिगच्छति। आत्मोन्नतिसम्पादनायैव त्वरध्वम्। अयमेव मदीयोपदेशस्य परमस्तात्पर्यार्थ आसीत्” इति।

← 317 
 319 →
Search
stories/318.txt · Last modified: 2026/10/06 15:43