तत्त्वविवेचनम्
जाह्नवीजलेष्ववगाहमानः कश्चिद्विपश्चित् “मातुः प्रीतिः परा लोके बलं भ्रातुः परं मतम्। किरणा हि परं ज्योतिः परं गङ्गोदकं ध्रुवम्॥” इतीमं श्लोकमुज्जगाद। तस्मिन्नेवावसरे वासांसि निर्णेजितुं तत्र सम्प्राप्ता काचन वामभ्रूस्तमाकर्ण्य जहास।
न्यक्कारममुमसहमानः स विद्वदहङ्कारग्रस्तो ग्रामाधिपं समुपगम्य चुक्रोश। ततो ग्रामाधिपस्तां प्रमदामानाय्य पप्रच्छ- “किन्निमित्तं त्वया धीमतोऽस्यावज्ञा व्यधायि?” इति।
तदा सा योषिदुवाच- “नाहं जातुचिदप्यमुं विपश्चिद्वरेण्यमवामंसि” इति।
“अद्य स्नानावसरे मयोदीर्यमाणं श्लोकमाकर्ण्यावज्ञया हसन्त्या त्वया किं नाहमवमतः?” इति रोषारुणितनेत्रान्तः स प्रजगर्ज।
“त्वयोदीर्यमाणं श्लोकमाकर्ण्याहं जहासेति तु सत्यमेव, यतस्तस्य श्लोकस्याशय एवोपहासास्पदमासीत्” इति सा प्रत्युवाच।
“किं वा मातुर्वात्सल्यं न गरीयः? किं वा भ्राता न बलवत्तरः? किं वा भानुमरीचयो न ज्योतिर्मयाः? किं वा भागीरथीजलं न पावनम्?” इति स पर्यपृच्छत्।
“त्वदुदीरितानां महिमा भवेन्नाम। किन्तु ततोऽपि गरीयांसि तत्त्वान्तराणि सन्त्यस्मिञ्जगति। यदि तातपुत्रयोर्मिथो विग्रहः समुदियात्, तदा माता न पुत्रपक्षं भजते, अपि तु कलत्रमेव। अत एव 'पत्न्याः प्रीतिः परा लोके' इति। यदा वैरिणोऽभियुञ्जीरंस्तदा भुजदण्ड एव बलायते। अत एव 'बलं बाह्वोः परं मतम्' इति। यदि लोचने न स्याताम्, तर्हि जीवनमेवान्धतामिस्रनिमग्नं स्यात्। अत एव मयोच्यते- 'दृष्टिशक्तिः परं ज्योतिः' इति। यदि जीमूतो वर्षेत्, तर्ह्येव प्राणिनां जीवनं प्रवर्तेत। अत एव 'परं मेघोदकं ध्रुवम्' इति वचनमेव समञ्जसतरम्” इतीत्थं सा वामलोचना विशदीचकार।
तस्यास्तद्वच आकर्ण्य तत्रत्याः सर्वेऽपि साकमनुमोदनेन शिरांसि दुधुवुः।