You are here: Home » stories » 320

अमात्यस्य प्रज्ञापाटवम्

दिगन्तविश्रान्तकीर्तिः कलामर्मज्ञः कलाविलासव्यसनी चासीद्विक्रमसिंहो नाम नृपतिः। तदीयास्थानमण्डपमलञ्चक्रुरनेके वैदग्ध्यशालिनः गान्धर्वशिल्पादिविद्याप्रवीणाः कलाकोविदाः, यैर्वाग्मिभिरन्वहमनुवर्ण्यते स्मामुष्य कलानुरागः। राज्यतन्त्रधुरन्धरोऽमात्यस्तु स्वप्रजापालनपराङ्मुखं केवलं कलासक्तं भूपालमालोक्य स्वाम्यनुरागप्रेरितो नितरामतप्यत। कथन्नु खल्वेष नराधिपो निजकर्तव्यबोधं प्राप्य प्रकृतिमण्डलानुरञ्जनपथेऽवतारणीयो भवेदित्याहोरात्रं चिन्तापरवशः स दध्यौ।

अथ जातुचिन्मन्त्रिमुख्यः क्षोणीन्द्रमुपगम्य बभाषे- “राजन्! सन्त्यस्माकमेव राज्येऽनेके प्रच्छन्नप्रतिभाशालिनः कर्मठशिल्पिनोऽन्यकलाविचक्षणाश्च। न खल्वस्माभिर्मनागपि दृष्टिपथं नीतास्तेषामनन्यसाधारणी त्यागनिष्ठा घर्मवारिबिन्दुस्नातपरिश्रमः परोपचिकीर्षा च” इति।

तदाकर्ण्य प्रहृष्टो भूपतिर्जगाद- “किमेतत्सत्यम्? तर्ह्यचिरादेव तेभ्यो गुणिभ्यः ससम्मानं महार्हं पारितोषिकं प्रदीयताम्” इति।

धीसचिवः सचातुर्यमन्ववोचत्- “देव! न ह्येते राज्यप्रदत्तपुरस्काराकाङ्क्षिणः क्षुद्रमानवाः। अहोरात्रं प्रस्विद्यन्तः स्वकर्मानुष्ठानेनैव ते परमात्मतुष्टिं विन्दन्ते” इति।

“तर्हि मास्म भूत् कालहरणम्! एहि, सद्य एव प्रस्थास्यामहे तादृशान् महात्मनो दिदृक्षवः। कलासपर्यामेवाहं देवताराधनं मन्ये” इत्युदीरयन्नेव क्षमापतिः सचिवेन साकं प्रतस्थे।

तौ च महारथमारुह्य पुरोपकण्ठं निर्जग्मतुः। कतिपयप्रहरात्मकस्य प्रयाणस्यानन्तरं नयनानन्दकराणि सस्यश्यामलकेदारमण्डलानि तौ सम्प्रापतुः। तत्र च बद्धपरिकराः कृषीवलाः स्वेदसलिलक्लिन्नगात्रा अक्लान्तपरिश्रमं कुर्वन्तो दृष्टिपथं जग्मुः।

स्यन्दनं निगृह्यावतीर्य चामात्योऽवदत्- “पश्य राजन्! एते कृषीवला अपि परोक्षरीत्या लोकानुग्रहकराः कलाकोविदा एव। नैते स्वकीयां कृषिकलां क्वापि जनाकीर्णे सभाखण्डे यशोधना इव प्रदर्शयन्ति। किन्तु यद्यमी कृषिकर्म धान्यसंवर्धनञ्च जह्युः, तर्हि वयमन्नमन्तरेण पञ्चत्वमापद्येमहि। अहोरात्रं शीतातपवर्षाण्यविगणय्यैवामी केदारेषु प्रस्विद्यन्ति” इति।

आश्चर्यचकितं तूष्णीं तिष्ठन्तं नृपतिमालक्ष्य मन्त्री स्वाभिप्रायमनुवर्तयामास- “न खल्वेते कस्यापि राज्यपुरस्कारस्य लिप्सवः। परार्थसम्पादनमेव हि सतामेतेषां नैसर्गिको धर्मः” इति।

अमात्यस्य गूढहृदयमवगच्छन् भूपालः पप्रच्छ- “तत् किन्नाम शक्यतेऽस्माभिरेतेषां लोकोपकारकाणां कृते विधातुम्?” इति।

“राजन्! सलिलाशयानामभावान्निदाघे शुष्ककण्ठा इवैते सस्यैः सह सीदन्ति। ततो यदि ग्रामेषु कूपतडागादयो निर्मीयेरन्, तर्ह्येतेषां महतीमुपकृतिं विदध्याम” इति जगाद मन्त्री।

प्रसन्नचेताः सचिववचोऽनुमोदमानो राजा समादिदेश- “त्वर्यताम्! अचिरादेव कृषकाणामुपकाराय कूपजलाशयादीनां निर्माणकार्याणि प्रारभ्यन्ताम्” इति।

तदनन्तरं राजशासनेन निखिले राज्ये ग्रामशः कूपतडागवापीदीर्घिकादयो निर्मिता अभवन्। अथ जातुचिन्मन्त्रिप्रवरेण नृपतेराध्यक्ष्यम् हालिकानामेका महती परिषत् समुपस्थापिता। तस्याञ्च परिषदि क्षमापतिरुदघोषयत्- “आगामिनि संवत्सरे ये खलु कृषका विपुलतरं सस्यमुत्पादयेयुः, तेभ्यो राजकोशात् समुचितः सत्कारः प्रदास्यते” इति।

इदमाकर्ण्य परमां निर्वृतिमुपगताः सर्वेऽपि प्रजाजनास्तस्य सचिवधौरेयस्य मतिप्रकर्षं समयोचितचातुर्यञ्च मुक्तकण्ठं तुष्टुवुः।

Search
stories/320.txt · Last modified: 2026/10/08 12:14