पादन्यासलब्धेश्वरदर्शनम्
आसीत्खलु तिरुपादाभिधः कश्चित्परममाहेश्वरो, यो हि भक्तिगरिम्णा धुरीणः सतामगण्यत । स तु नित्यनैमित्तिकं शिवार्चनं विधिवद्विधायैव जलपानमचीकरत्, न तु कदाचिदपि तद्विधिमत्यवर्तत । कार्यव्यापृतोऽपि सततं पञ्चाक्षरजपमुखरस्तस्थौ ।
अथैकदा स दूरवर्ति किञ्चिद्देवतायतनं प्रति प्रतस्थे । पथिखेदपरिश्रान्तश्चिरमध्वगमनेन वयोभारविनम्रीभूतगात्रः स महात्मा तस्य देवालयस्य सोपानमेवाधिशिश्ये, क्षणाच्च गाढनिद्रामुपेयिवान् ।
अथोषसि पूजनार्थमुपस्थितोऽर्चकस्तं तथा शयानं ददर्श । तं वीक्ष्यैव स रोषाग्निना प्रजज्वाल । निजकराम्बुजस्थितादभिषेकभाजणाज्जलमादाय तस्य वदनारविन्देऽसिञ्चत्, येनासौ झगिति प्राबुध्यत । प्रबुद्धश्च स विनीतः क्षमामयाचिष्ट ।
तावता तु देवपूजकस्य कोपोऽप्यौन्नत्यं जगाम । स तमेवं न्यभर्त्सयत् — “अये दुर्मते ! देवतासन्निधौ चरणौ प्रसार्य शयितुं कथमिव ते प्रासरद्धृदयम् ? अधुना च कृतमहापराधः सन्निर्लज्जं क्षमां याचसे !”
तच्छ्रुत्वा स शिवपदाम्बुजषट्पदस्तिरुपादः स्मित्वा मधुरया गिरा व्याजहार — “महाभाग ! श्रान्तिक्लेशादध्वश्रमेण च मे चरणौ कीलिताविव संवृत्तौ । तत्प्रसादं कुरु, त्वमेवेमौ मम पादौ तत्र निधेहि यत्र विभुर्न विद्यते । यदा तु पादयोः स्तम्भविगमो भविता, तदा स्वयमेवाहमुत्थायास्मात्प्रदेशादपक्रमिष्यामि” इति ।
तदाकर्ण्य स देवलो रोषकषायितदृष्टिस्तस्य चरणयुगलमाकृष्य वेगेन प्रदेशान्तरे निदधे । किमाश्चर्यम् ! यत्रैव पादौ न्यस्तौ, तत्रैव भूमित उद्भिद्य सद्यः किञ्चन ज्योतिर्मयं शिवलिङ्गं प्रादुरभूत् । एतदचिन्तनीयं वीक्ष्य सोऽर्चको विस्मयाविष्टचेता अभूत् ।
तथापि स तस्य प्रभावमजानन् पुनरपि तत्पादयुगलं गृहीत्वान्यत्र चकर्ष । तत्रापि तथैव शैवं लिङ्गं प्रत्यक्षीबभूव ! एवं स देवपूजको यत्र यत्र तत्पादयुगलं न्यधात्, तत्र तत्रैव सद्यः शम्भोर्लिङ्गं प्रादुरास ।
तदानीं स तत्त्वं विजज्ञौ — नायं कोऽपि प्राकृतो जनः, अपितु कश्चिन्महात्मैव शिवानुग्रहभाजनमिति । इति निश्चित्य ससंभ्रमं तस्य पादपद्मयोर्दण्डवत्प्रणिपत्य क्षमामयाचिष्ट ।
अथ स शिवभक्तिधुरीणस्तमुत्थाप्य सस्नेहमेवं प्रत्युवाच — “वत्स ! परमेश्वरो न केवलं देवतायतनस्य गर्भगृहे, नापि तत्परिसर एव सन्निधत्ते, अपितु स भगवान् विश्वतोमुखः सर्वमधिष्ठायावतिष्ठते । ये तु देवं मन्दिरमात्रपरिमितं मन्यन्ते, ते खलु जडधियः सन्मार्गपराङ्मुखा एवेति ।”