You are here: Home » stories » 22
21 
 23

सारतत्त्वविस्मृतिः

एकदा जपान्देशान्तर्गते तोक्योनामनि पत्तने निवसन्स्वामी रामतीर्थः किल व्यतिकरमिमं प्रत्यक्षयामास। स हि कदाचिद्वीथीं परिभ्रमन् हुताशनज्वालालिह्यमानमेकं वेश्म नयनयोः पन्थानमुपजगाम। वह्निं प्रशमयितुं पौरास्तत्र समन्ततः प्रायतन्त। परिचारकाश्च तस्माद् दन्दह्यमानाद् गेहात् सारभाण्डानि त्वरमाणा बहिर्निन्युः।

अथ स्वामी रामतीर्थोऽपि तत्सविधमुपासर्पत्। तावदेवार्यः कश्चिद् गृहपतिमुपगम्य पप्रच्छ – “कच्चिदशेषं वसुजातं निःसारितं भवता गेहात्?” इति। स च गृहमेधी बहिःपुञ्जीकृतानि द्रव्याणि सकृदवलोक्य प्रत्यवोचत् – “आम्। भूयसा सर्वमेव सारधनमासादितम्” इति।

अथ क्षणं विमृशतस्तस्य चेतसि स्फुरितं यदहो, तस्यैकसूनुरर्भको दहनदष्टसद्मान्तराल एव वर्तत इति। ततः स किङ्कर्तव्यताविमूढो हृदयाविद्ध इव करुणं विलपन् तारस्वरेणाक्रन्दितुमारेभे – “हा हन्त! प्राणेभ्योऽपि गरीयान्मे तनूजोऽद्यापि दह्यमानगृहोदरे वर्तते! परित्रायताम्! परित्रायताम्!” इति।

तदाकर्ण्य कारुणिकाः केचन तं डिम्भकं रक्षितुमभ्यधावन्। किन्तु यावत्ते तत्रागमिष्यन्, तावदेव तत्सदनं सर्वथा भस्मावशेषतामियाय। तैश्च तस्य धनिनः शिशोर्भस्मीभूतं कलेवरमेव केवलं लेभे। तदवलोक्य स वणिक् भूयोऽपि शोकानलपरीतात्मा परिदेवितुमुपचक्रमे।

ततः स्वामी रामतीर्थस्तं नानाविधैः समाश्वासनवचोभिः सांत्वयित्वा निजालयम्प्रति प्रत्याजगाम। निजप्रकोष्ठे चोपविश्य स महात्मा स्वकीयदैनन्दिन्यां लिलेख – “ईदृगेव व्यतिकरो लोकेऽस्मिन् सर्वत्रैव सञ्चरति। यद्धि चक्षुर्ग्राह्यं वस्तुजातं, तत्रैव प्रायशो जना अवहिता भवन्ति, परोक्षं सारतत्त्वं तु विस्मरन्त्येव। यदा पुनस्तदेव सारभूतं वस्तु विनाशमुपयाति तदा ते भृशं शोचिष्यन्ति। शोकेन तु गतं वस्तु न पुनरवाप्स्यते। तस्मात्प्रागेव सारवस्तुनः परित्राणे मतिर्विधेया” इति।

21 
 23
Search
stories/22.txt · Last modified: 2025/12/05 12:08