मोघस्तुतिनिरासः
भगवतस्तथागतस्य यशः समन्तात् पप्रथे, येन तं दिदृक्षया भूरीयसो जनाः समाजग्मुः। आढ्याः, अभिजातकुलीनाः, नरपतयः, महोच्चपदाधिष्ठिताश्च तस्य पादपङ्कजं पस्पृशुः, महिमानं चानल्पैः प्रकारैस्तुष्टुवुः। स्तुतिवाचामुदीरितास्वपि तन्मुखे विकारलेशो नालक्ष्यत। किञ्च, यदा केचन तं साक्षादभर्त्सयन्, तदाकर्ण्य चास्य वदने स्मितमेव विजजृम्भे। तस्येमामकम्पप्रकृतिं विलोक्य बहवो विस्मयं भेजुः।
अथैकदा कश्चिदन्तेवासी तस्यैतमविकारस्वभावं भृशं प्रशशंस। “त्वत्सदृशो बहुश्रुतप्रज्ञातिशयशाली महाभागोऽपरो न कोऽपि विद्यते भूतले” इति चैनं तुष्टाव।
भगवानपि तत् सस्मितमाचचाम। यदा स शिष्यः स्तुतिप्रपञ्चं विततान, तदा सुगतस्तं पप्रच्छ – “मत्तः प्राक् ये मनीषिणो बभूवुः, कियन्तः किंप्रभावाश्च ते, किममुं वृत्तान्तं समग्रतो वेत्सि त्वम्?” स आह – “न खलु समग्रतः, केषाञ्चन विषये मनाग् मनागवगतमस्ति मया।” भगवान् भूयः पप्रच्छ – “अस्मिन् विपुलतरे भुवने साम्प्रतं ये प्राज्ञा विचरेयुः, किं तेषां सर्वस्वं त्वया विदितम्?” सः प्रत्युवाच – “नैव, मया भूयसा न पर्यटितं जगन्मण्डलम्।” सुगतस्तृतीयवारमपृच्छत् – “आयत्यां च ये प्राज्ञाः सम्भवितारः, किं तेषु ते कापि प्रज्ञा?” शिष्योऽवदत् – “नैतत्। भविष्यन्तमर्थं को नामानुमातुं प्रभवेत्?” “भवतु नाम,” इत्युक्त्वा तथागतः पुनरब्रवीत्, “मदीयस्य समग्रस्य तत्त्वस्य विषये सर्वं विदितं वर्तते नु ते?”
“नहि भगवन्! क्व चायं जनोऽल्पीयान्, क्व च भवान् महात्मा! भवन्माहात्म्यं समग्रतया मया कथं नाम परिच्छेद्येत?” इति शिष्यः सप्रश्रयं न्यगादीत्।
तदा स कारुणिको भूयो जगाद – “ये तावत् प्राज्ञाः पुरा बभूवुः, ये चैदानीं सन्ति, ये च भाविनः, न तेषु ते सम्यग्ज्ञानम्। मदीयं च तत्त्वं नाशेषेण त्वयाधिगतम्। एवंविधस्थितौ सत्यामपि त्वं मामभिष्टौषि ‘न त्वत्समः कोऽपि ज्ञानी’ इति। किं प्रयोजनमेतादृश्या निराधारस्तुत्या? जनेषु यान् गुणान् साक्षात्कुर्याः, तान् परेभ्य आचक्ष्व, न तत्र कश्चिद्दोषः। यत्तु त्वया न ज्ञायते, तत्राप्रमाणिका श्लाघा निष्फलैव। अत इमां रीतिं समुत्सृज। गुणानां परिज्ञानाय यतस्व, तान् सङ्कीर्त्य प्रचारय च। गुणदर्शनाद्धि ते चेतः प्रसादमधिगन्ता।”