You are here: Home » stories » 271
270 
 272

परद्रोहो हि स्वनाशाय

स्वप्रयोजनसाधनान्धैरमीभिर्निर्जरैरेवामुष्य मे तातस्य दधीचेरस्थीन्युपयुक्तानि, यन्मूलकं खल्वस्य पञ्चत्वम्। तस्मादेतान्स्वार्थलम्पटान्देवान्निःशेषमुन्मूलयेयम्—इति कृतनिश्चयः स पिप्पलादो महोग्रं तपस्तप्तुं प्रववृते।

अथ सुदीर्घेणैतस्य तपसा भृशं प्रतुष्टो विरूपाक्षः पुरस्तात्प्रादुरास, जगाद च तं सस्मितम्—“वत्स! वृणीष्वेप्सितं वरम्” इति।

“भगवन्! उन्मील्य निजं भाललोचनममून्स्वार्थपरतन्त्रानखिलांस्त्रिदशान्भस्मीकुरुष्व” इत्ययाचिष्ट सः।

“अविदितं खलु ते मदीयं रौद्रं वपुः। यद्यहं भैरवमाकारमास्थाय तृतीयं नयनमुद्घाटयेयम्, तर्ह्यखिलमप्येतज्जगद्भस्मसात्स्यात्” इति शर्वो व्याजहार।

“कामं दह्यतामशेषमिदं जगत्, न मे तत्रास्ति कापि चिन्ता। दुरात्मनाममीषां सुराणां विनाश एवैकं मे प्रयोजनम्” इति स प्रोवाच।

“प्रथमं तावत्स्वमानसे मदीयं घोरं रूपमवलोकय। ततश्च कीदृशो वरो याच्य इति निश्चिनु” इत्युक्त्वा तस्मै मुनिकुमारकाय निजं रौद्रं वपुर्दर्शयामास पिनाकपाणिः। अथ तदीयभाललोचनविनिःसृतैर्ज्वालाकलापैः स्वमपि दह्यमानमाकलय्य दिग्मूढो भयाक्रान्तश्च सञ्जज्ञे पिप्पलादः। प्रकम्पमानकलेवरश्च स पशुपतिमभ्यर्थयामास—“नाथ! उपसंहृत्येदं भैरवं रूपं सौम्येन वपुषा दर्शनं देहि मे” इति।

“अहं हि त्रिदिवौकसां भस्मसात्करणमयाचिषि, त्वं तु मामेव दग्धुमुद्यतोऽभूः” इति प्रशान्ताकारं धूर्जटिं जगाद पिप्पलादः।

“प्रारब्धे हि जगद्विनाशे, तवापि विनाशो ध्रुवम्। यतस्तवाङ्गेष्वमी देवा एवाधिष्ठातारः। अङ्गाधिष्ठातृदेवतानां विनाशे सति तच्छरीरस्यापि विनाशोऽवश्यंभावी खलु? तव तातो दधीचिर्महानुभावः। जगद्धितायैव तेन स्वकलेवरमुत्सृष्टम्, येन स दिव्यान्लोकानवाप। तादृशस्य महात्मनः सूनुना त्वया जगद्धितमेव चिन्तनीयम्, न तु सुराणां विनाशः” इत्येवं पिप्पलादं प्रबुबोध भगवान्भवः।

विदितस्वदोषः स पिप्पलादः परया भक्त्या भर्गं प्रणिपपात।

270 
 272
Search
stories/271.txt · Last modified: 2026/08/21 14:42